Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ लघी० प्रमाणप्र० का०८] प्रतीत्यसमुत्पादवादः 393 मिथ्याज्ञानलक्षणाऽविद्यावत् विपरीतश्रद्धान-आचरणस्वरूपयोः मिथ्यादर्शन-चारित्रयोरपि संसारहेत्वोः हेयतया सम्यग्ज्ञानादेश्व मोक्षहेतोः उपादेयतया तेषामुपयोगात् / प्रसाधयिष्यते च ज्ञानादित्रयस्यैव असम्यगरूपस्य संसारहेतुता, सम्यगरूपस्य च मोक्षहेतुता मोक्षविचारावसरे प्रैपञ्चतः / न च अविद्यायामेव तेषामन्तर्भावः इत्यभिधातव्यम् ; ततोऽत्यन्तविलक्षणतया तत्र तेषामन्तर्भावासंभवात् , यद् यतोऽत्यन्तविलक्षणं न तत् तत्र अन्तर्भवति यथा 5 जलेऽनलः, अत्यन्तविलक्षणाश्च अविद्यातो मिथ्यादर्शनादय इति / तत्र एषामन्तर्भाव वा परिगणितद्वादशाङ्गोपदेशोऽनुपपन्नः ; चतुरार्यसत्येष्वेव अशेषस्य अन्तर्भावात् तदुपदेशस्यैव मुमुक्षुणामुपपत्तेः / __ यच्च अविद्यायाः 'क्षणिक' इत्यादिलक्षणमुक्तम् तद्युक्तम् ; क्षणिकादिज्ञानस्यैव अविद्यारूपत्वात् / अंतत्त्वे तत्त्वज्ञानं हि अविद्या, सर्वथा क्षणिकत्वं नैरात्म्यञ्च अर्थस्याऽस्वरूपं प्रमा- 10 णाऽनुपपन्नत्वात् सर्वथा नित्यत्ववत् / तदनुपपन्नत्वञ्चास्य सन्तानभने क्षणभङ्गभङ्गे च प्रदर्शितम्। __ यदपि-'संस्कारा रागादयः' इत्युक्तम् / तदतीवाऽसङ्गतम्; यतो रागादीनां संस्काररूपता लौकिकेतरयोः तद्रूपतया प्रसिद्धत्वाद् अभिधीयते, व्युत्पत्तिमात्रेण वा ? तत्र आद्यपक्षोऽनुपपन्नः ; लोके शास्त्रे च वेगादिस्वभावस्यैव संस्कारस्य प्रसिद्धः / द्वितीयपक्षोऽप्यपेशलः ; 'संस्क्रियन्ते इति संस्काराः' इति व्युत्पत्तिमात्रेण रागादिवत् निखिलार्थानां संस्कारत्वप्रसङ्गात्, 15 तथा च अविद्यात एव अखिलार्थानां तद्रूपतया उत्पत्तिप्रसङ्गात् प्रदर्शिततत्कारणभेदप्रक्रिया विशीर्येत / पुण्यादिप्रकारता चैषामतीव दुर्घटा ; नहि रागादोनां पुण्यादिव्यपदेशो लोके शास्त्रे वा क्वचित् प्रसिद्धः, सुखादिसाधनस्य धर्मादेरेव तत्र तत्प्रसिद्धेः / तत्कार्यत्वात् तेषामपि तद्वथपदेशः; इत्यप्यसाम्प्रतम् ; पुण्यादे रागादिकारणत्वाऽसंभवात् , आचरणविशेषनिबन्धनत्वात्तस्य / परम्परया तन्निबन्धनत्वात् तस्य तद्यपदेशे अविद्यादेरपि तद्वयपदेशप्रसङ्गात् 20 प्रतिनियतव्यवस्थाविलोपः स्यात् / __यदपि 'संस्कारप्रत्ययं विज्ञानम्' इत्युक्तम्" तदप्यनल्पतमोविलसितम्रागादीनां विज्ञानप्रतिपक्षभूततया तल्लक्षणसंस्कारेभ्यः प्रादुर्भावाऽसंभवात् ,तत्प्रतिपक्षभूतता चैषामन्यैरपि उक्ता “अन्धादयं महानन्धो विषयान्धो कृतेक्षणः / चक्षुषाऽन्धो न जानाति विषयान्धो न केनचित् // " [आत्मानुशा० श्लो० 35] इति / 25 षट्प्रकारता चास्य खपुष्पप्रख्या ; भवत्परिकल्पितस्य इन्द्रियप्रभवज्ञानस्य विकल्पज्ञानस्य च सविकल्पकसिद्धौ प्रत्याख्यातत्वात् / ...१-श्रद्धाचरण-ब०, ज० / 2 प्रपञ्चेन ब०, ज०, श्र० / 3 दुःखसमुदयनिरोधमार्गलक्षणेषु / 4 पृ० 391 पं० 2 / 5 अतत्त्वज्ञानं हि आ० / 6 पृ. 9 / 7 पृ. 391 पं०३ / ८-त्र प्रसि-श्र० / 9 इत्यसा-श्र०।१०-शत्वप्रस-श्र०।११ पृ. 390 पं०६।

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598