Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 574
________________ 384 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० तद् अक्षणिकेऽप्यस्त्येव, तदपि हि क्षणमास्ते', अन्यथा अक्षणिकमेव तन्न स्यात् / अथ क्षणाऽनन्तरमभावः; तदा अशब्दार्थत्वम् , नहि क्षणानन्तरमभावः क्षणशब्दवाच्यः, यतस्तेन तद्वत्ता स्यात् , 'क्षणानन्तरमभावश्च अर्थानां प्रत्यक्षादिविरुद्धः' इत्युक्तम् / यदप्युक्तम् -' उत्पादिताऽशेषकार्यप्रामस्य' इत्यादि; तत्र उत्पादिते कायें तदुत्पादकस्वभावः 5 अस्य व्यावर्त्तते एव, अपरकार्योत्पादस्वभावस्वीकारात् / न चैवमस्य क्षणिकत्वप्रसङ्गः; स्व भावभेदेऽपि तद्वतः अभेदप्रत्ययविषयत्वेन अक्षणिकत्वप्रतिपादनात् / एतेन 'येऽकृत्वा कुर्वन्ति' इत्यादि प्रत्युक्तम् / यच्च कृतकत्वं क्षणिकत्वे साधनमुक्तम् ; तत्रापि पक्षादिदोषः पूर्ववद् द्रष्टव्यः। कृतकत्वञ्च कार्यत्वमुच्यते, क्षणक्षयैकान्ते च कार्यकारणभावस्य सन्ताननिषेधाऽवसरे प्रतिक्षिप्तत्वात् कथं 10 तत् सिद्धयेत् ? अस्तु वा तत्र तद्भावः, तथापि अत्र 'किमेकस्मात् कारणात् एक कार्यमुत्प द्यते, किं वा अनेकस्मादेकम् , उतस्वित् एकस्मादनेकम् , आहोस्वित् अनेकस्मादनेकम् इति ? तत्र आद्यपक्षोऽनुपपन्नः ; एकस्मात् प्रदीपादिकारणात् दशाननदाह-तैलशोष-अन्धकारापनय- .. नाद्यनेककार्योदयदर्शनात् / द्वितीयपक्षोऽप्ययुक्तः ; भवन्मते अनेकावयुवनिवहनिर्मित-अव यविस्वरूपैककार्याऽसंभवात् / रूपाऽऽलोकाद्यनेककारणकलापात् ज्ञानादिलक्षणैककार्य संभ१५ वति; इत्यप्यपेशलम् ; "कारणभेदोपनीतस्वभावनानात्वयोगतः तस्य एकत्वाऽनुपपत्तेः, अर्थेन हि नीलाद्याकारः, समनन्तरप्रत्ययेन स्वसंविद्रूपता, आलोकेन स्पष्टता, चक्षुरादिना रूपादिनियतता ज्ञाने समर्प्यते इति / तदुपनीतविविधविरुद्धर्माध्यासेऽपि अस्य एकत्वे नानाकालयोगेऽपि एकत्वं किन्न स्यात् अविशेषात् ? एतेन तृतीयपक्षोऽपि प्रत्युक्तः ; अनेक कार्य सहकारीतर स्वभावेन एकस्य उत्पादयतः विरुद्धधर्माध्यासेन एकत्वाऽनुपपत्तेः, तदुपपत्तौ" वा अनेकक्षण२० योगेऽप्यस्य एकत्वमुपपद्यतां विशेषाऽभावात् / १-स्ते न वा अक्ष- श्र० / 2 तद्वत् तत् ब०, ज० / 3 पृ० 375 पं० 22 / ४-प्रत्ययत्वेन आ० / 5 “क्षणक्षयेऽपि नैवास्ति कार्यकारणताञ्जसा / कस्यचित्वचिदत्यन्ताव्यापारादचलात्मवत् // 124 // " तत्त्वार्थश्लो. पृ० 77 / “न च क्षणिकत्वे सति कार्यकारणभावो घटते..." प्रश. व्यो. प्र. ४०१।६"क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः, उत बहुभ्यः एकोत्पत्तिः, अथ एकस्मादनेकनिष्पत्तिः, आहो बहुभ्यः बहुसंभव इति परीक्षणीयम्"" न्यायमं० पृ० 453 / सन्मति० टी० पृ. 400 / स्या. रत्ना० पृ० 761 / अभि. आलोक पृ. 548 / 7 वर्तिकामुखदाह / ८-यवनिर्मित-ब०, ज० / "नहि अस्माकमिव भवतामनेकावयवनिवहनिर्मितमवयविस्वरूपं कार्यमस्ति / " न्यायमं० पृ. 454 / 9 "नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता, समनन्तरप्रत्ययात् पूर्वविज्ञानाद् बोधरूपता, आलोकात् सहकारिप्रत्ययाद्धेतोः स्पष्टतार्थता, चक्षुषोऽधिपतिप्रत्ययाद् रूपग्रहणप्रतिनियमः... " ब्र० सू० शां०भा०, भाम० 2 / 2 / 21 / 10 "कारणभेदोपनतस्वभावनानात्वयोगादेकत्वमेव तावद् विरुद्धयते "" न्यायमं० पृ. 454 / 11 "विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते / अनेकक्षणयोगेऽपि भाव एकोऽभ्युपेयताम् // " न्यायमं० पृ. 454 /

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598