Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 544
________________ 354 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० सामान्यञ्च सर्वपुरुषोपभोग्यत्वात् देशकुटीवत् / विषयत्वादेव च अचेतनं तत् , चेतनस्य एवंरूपत्वाऽनुपपत्तेः / प्रसवधर्मि च द्वयमपि 'प्रसवः कार्यजननं धर्मोऽस्य' इति; तथाहि-प्रधानं बुद्धिं जनयति, बुद्धिरपि अहङ्कारम् , अहङ्कारोऽपि तन्मात्राणि इन्द्रियाणि च एकादश, तन्मा त्राणि महाभूतानि जनयन्तीति / पुरुषस्तु सामान्यधर्मेण सरूपः अन्यैस्तु धर्मैः विरूपः, यथा 5 हि प्रधानं भोग्यत्वेन सर्वभोक्तृसाधारणम् तथा पुरुषोऽपि भोक्तृत्वेन सर्वभोग्यसाधारण इति / - अत्र प्रतिविधीयते / यत्तावदुक्तम् -प्रकृतिसद्भावाऽऽवेदकं 'भेदानां परिमाणात्' इत्यादि हेतुपञ्चकम् ; तद् आश्रयाऽसिद्धिदोषदुष्टत्वाद् अयुक्तम् ; सत्कार्थवादप्रतिविधान पुरस्सरं प्रकृतेः असंवेद्यस्वभावतया स्वरूपेण असिद्धत्वात् / व्यधिकरसांख्याभिमततत्त्वसृष्टि-भृतसष्टिप्रक्रिययोः विस्तरतः खण्डनम् ___णाऽसिद्धत्वाच्च, 'परिमितत्वादिकं हि साधनं भेदेषु वर्त्तते अस्ति - त्वं तु साध्यं प्रकृतौ' इति / अथ महदादिभेदानामेव अत्र एककारणपूर्वकत्वं प्रसाध्यते तेन उक्तदोषद्वयाऽभावः; तन्न; प्रधान-पुरुषैरनेकान्तात्, तत्र एकत्व-अनेकत्वसंख्यया महापरिमाणेन च परिमितत्वेऽपि एककारणपूर्वकत्वाऽसंभवात् / किञ्च, परिमितं च स्यात् एककारणपूर्वकञ्च न स्यात् किं विरुद्धयेत् ? एककारणपूर्वकत्वे च ईश्वरः कालादिर्वा एकं कारणं भविष्यति इति विरुद्धत्वम् / दृष्टान्तस्य साध्यविकलता ; 15 घटादेरेककारणपूर्वकत्वासंभवात् / न हि एक किञ्चित् जनकं प्रतीयते , सहकारि-इतरकारण प्रभवत्वात् कार्याणाम् / मृत्पिण्डस्यापि अनेकावयवसमुदायात्मकत्वात् न सर्वथैकत्वम् , मृद्रव्यस्यापि प्रतिपर्यायं भेदात् / अतः परिमितत्वमनेककारणपूर्वकत्वेनैव व्याप्तत्वात् विरुद्धम्। . 'समन्वयात्' इत्यपि अनैकान्तिकम् ; प्रकृति-पुरुषाणामेककारणपूर्वकत्वाऽभावेऽपि नित्यव्यापित्वादिधर्मेः समन्वयसंभवात्, पुरुषाणाञ्च भोक्तृत्वादिधर्मैः इति / भिन्नजातीनां च जलाऽ 20 नलादीनामेकोपादानप्रभवत्वं दुरुपपादम्, पदार्थजातिभेदस्य कारणैकत्वविरोधित्वात् / असि द्धन्चेदम् ; नहि समप्रभूतग्रामस्य सुखदुःखमोहमयत्वेन प्रधानान्वितत्वसिद्धिरस्ति 'सुखादीनामन्तःसंविद्रूपतया प्रतिभासतो बाह्यार्थानां तन्मयत्वाऽनुपपत्तेः, न हि कश्चित् बाह्यं सक्चन्दनादिकं 'सुखम् ' इति प्रतिपद्यते, सुखजनकत्वेन आबालं तत्प्रसिद्धः / न च कार्यकारणयोः एकत्वम् अनौपचारिकं प्रामाणिकैः आद्रियते / प्रधानसत्त्वस्य च अद्याप्यप्रसिद्धः तस्यैव 1 पूर्वपक्षे निर्दिष्टानां सांख्यकारिकाणां विशेषव्याख्यानं माठरवृत्तौ तत्त्वकौमुद्यां च द्रष्टव्यम् / 2 पृ. 350 50 15 / ३-कंसाधनं आ० / 4 "प्रधानपुरुषरनेकान्तात् ।.."स्या रत्ना० पृ. 986 / ५-स्य च सा-श्र०। ६"मृद्विकारादयो भेदाः नैकजात्यन्वितास्तथा। सिद्धानैकनिमित्ताश्च मृत्पिण्डादेविभेदतः // 43 // चैतन्याद्यन्वितत्वेऽपि नैकपूर्वत्वमिष्यते / पुरुषाणाममुख्यं चेत्तदिहापि समं न किम् // 44 / / " तत्त्वसं० / सन्मति० टी०पृ०३०६ / स्या० रत्ना० पृ. 986 / ७-वयवस्य समुदा-श्र० / 8 दुःखादीना-भां० / “नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयाऽन्वय उपपद्यते / सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः।" ब्रह्मसू० शा० भा० 2 / 2 / 1 /

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598