Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 352 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० गणः-पञ्च बुद्धीन्द्रियाणि श्रोत्र-त्वक्-चक्षुः-जिह्वा-घ्राणलक्षणानि 'बुद्धये बुद्धिमभिव्यक्तुम् इन्द्रियाणि' इति, पञ्च कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायु-उपस्थसंज्ञानि 'कर्मणे कर्म अभिव्यक्तम् इन्द्रियाणि' इति, मनैः सङ्कल्परूपम्-'ग्रामेऽहं प्रस्थितः , सुवर्णस्य प्राप्तिर्भविष्यति द्रव्यस्य वा' इत्यादि सङ्कल्पवृत्तिर्मनः / भूतादेस्तु पञ्चतन्मात्राणि नित्यादिस्वभावानि, ततोऽपि महा५ भूतानि तथाविधानि इति / एवं तत्त्वसृष्टिं विधाय भूतसृष्टौ यदा प्रकृतिः प्रवर्त्तते तदा प्रथमतो ब्रह्मणः प्रादुर्भावः , तस्य च महत्तत्त्वात् योजनशतपरिमाणा बुद्धिनिःसरति, अहङ्कारतत्त्वाच्च अहङ्कारः एकादश इन्द्रियाणि, तन्मात्रेभ्यः सूक्ष्मदेहारम्भकाणि भूतानि, तदुपरि प्रभूतेभ्यो भूतेभ्यः प्रतिप्राकार स्थानीयः स्थूलो देहः सांसिद्धिकः कललादिक्रममन्तरेण झटिति उत्पद्यते, एवं मन्वादीनामपि / 10 अन्येषां तु सूक्ष्मभूतारब्धं शरीरम् आसर्गप्रलयस्थायि, प्रतिप्राकारस्थानीयं तु मनुष्यादीनां मातापितृजम् , देव-नारक-क्षुद्रजन्तूनी च औपपादकम् इति / अयञ्च महदादिप्रपञ्चः प्रकृतौ सन्नेव कुतश्चिद् आविर्भाव प्रतिपद्यते "असदकरणादुपादानग्रहणात् सर्वसंभवाऽभावात् / __ शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् // " [ सांख्यका० 6 ] इति हेतु१५ पञ्चकादवसीयते / "यदि हि कारणे कार्यमसत् स्यात् तदा नीरूपत्वात् खपुष्पवत्" तत् कर्तुं न शक्येत / यदि च असदेव कार्यम् तर्हि नियतोपादानं न स्यात्, यथैव हि तन्तुषु घटस्य असत्त्वं तथा मृत्पिण्डेऽपि अतो मृत्पिण्डवत् तन्तवोऽपि घटार्थिना उपादीयेरन् , पूर्वः कार्यापे 1 "बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि / वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः // 26 // " सांख्यका० / “इन् इति विषयाणां नाम, तान् इनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि / शब्दस्पर्शरूपरसगन्धान बुध्यन्त इति बुद्धीन्द्रियाणि 'कर्म कुर्वन्ति कारयन्ति च कर्मेन्द्रियाणि / ... "माठरवृ० / २-व्यक्तये भा० / 3 “उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियञ्च साधर्म्यात् / गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच // 27 // " सांख्यका० / उभयात्मकमत्र मनः-कर्मेन्द्रियेषु कर्मेन्द्रियम् , बुद्धीन्द्रियेषु बुद्धीन्द्रियम् / माठरवृ० / 4 तथाभूतानीति श्र० / 5 "मम योनिर्महद् ब्रह्म तस्मिन् गर्भ दधाम्यहम् / संभवः सर्वभूतानां ततो भवति भारत // 14 // " भगवद्गी० अ०३। "मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां सर्वकार्येभ्यो महत्त्वात् भरणाच स्वविकाराणां महद् ब्रह्म इति योनिरेव विशिष्यते / तस्मिन् महति ब्रह्मणि योनौ गर्भ हिरण्यगर्भस्य जन्मनो बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि'' " भगवद्गी० शां. भा० / ६-रिभ-ब०, ज०। 7 मनुष्याणां आ० / "सूक्ष्माः मातापितृजाः सहप्रभूतैः त्रिधा विशेषाः स्युः / सूक्ष्मास्तेषां नियता मातापितृजाः निवर्तन्ते // 39 // " सांख्यका० / “सूक्ष्मास्तावत् पंच तन्मात्रकाः तैरेव आदिसर्गे सूक्ष्मशरीराणि त्रयाणां लोकानां प्रारब्धानि / तत् सूक्ष्मशरीरम् ऋतुकाले मातुरुदरं प्रविशति तैरारब्धं सूक्ष्मशरीरमस्मिन् स्थूलशरीरे पतति / " माठरवृ० / सांख्यसू० ३।१८-नां तु औ-ब०, ज०,श्र० / 9 औपपादुकम् ब०, आ०। औपपादिकम् 20 / 10 यदि का-आ० / ११-वत् क-आ० / 12 शक्यते भां०, श्र। .

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598