Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 562
________________ 372 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ___ यदप्युक्तम्'-'मुक्तोऽप्यमुक्त' इत्यादि; तदप्यनल्पतमोविलसितम् ; यतः द्विविधो हि अनेकान्तः-अक्रमाऽनेकान्तः, क्रमाऽनेकान्तश्च / तत्र ज्ञानसुखाद्यनेकाऽक्रमिधर्मापेक्षया अक्रमाऽनेकान्तः, युगपदपि एकत्रात्मनि संभवात् / मुक्त-इतराऽनेकक्रमिधर्मापेक्षया क्रमाऽनेकान्तः, अयुगपदेव तत्संभवात् / तथा च ‘य एव आत्मा पूर्वममुक्तः स एव उत्तरकालं मुक्तः' 5 इति न किञ्चिद् विरुद्धथते अनेकान्तक्षतिर्वा प्रसज्यते / एकरूपत्वे च आत्मनो बन्ध-मोक्षा ऽभावः, बद्धस्य हि मुक्तत्वम् , न च सर्वथैकरूपस्य अवस्थाद्वययोगो युक्तः विरोधात् / तदेवम् एकान्तदुराग्रहग्रहाभिनिवेशं परित्यज्य प्रतीतिभूधरशिखरारूढमनेकान्तात्मकत्वं वस्तुनोऽभ्युपगन्तव्यम् / ततः स्थितमेतत्-'द्रव्यपर्याय' इत्यादि। तदेवं नित्यत्वाद्येकान्तलक्षणगोचरस्य प्रत्यक्षग्राह्यत्वेन आत्मसमर्पणाऽभावात् न साक्षात्क१० रणं संभवति / 'न केवलम्' इत्यादिना अत्रैव दूषणान्तरमतिदिशन्नाह न केवलं साक्षात्करणम् अध्यक्षीकरणम् एकान्ते नित्यत्वैकान्ते अनित्यत्वैकान्ते च न संभवति, अपि तु अर्थक्रिया न युज्येत नित्य-क्षणिकपक्षयोः। - क्रमाऽक्रमाभ्यां भावानां सा लक्षणतया मता // 8 // विकृतिः-अर्थक्रियासमर्थ परमार्थसत् ( इति ) अङ्गीकृत्य स्वपक्षे पुनः अर्थक्रियां 15 स्वयमेव निराकुर्वन् कथमनुन्मत्तः ? स्वभूतिमात्रमर्थक्रियां विपक्षेऽपि कथनिरस्येत, मिथ्याव्यवहारं वा ? संवित्तरभेदेऽपि विषयाकारस्यैव विषयसाधनत्वं नाकारान्तरस्य / ततःअर्थस्य ज्ञानस्य अन्यस्य वा क्रिया करणम् न युज्येत न घटेत। क ? नित्यक्ष णिकपक्षयोः। एतदुक्तंभवति-यत एव अर्थसाक्षात्करणं तदेकारिकाव्याख्यानम् , कान्ते न संभवति अत एव प्रत्यक्षाऽनुपलम्भसाधनः कार्यकारनित्ये क्रमयोगपद्याभ्याम् णभावोऽपि न संभवति / किन्च, अर्थक्रिया क्रमयोगपद्याभ्यां अर्थक्रियाकारित्वाऽभाव व्याप्ता, न च नित्यैकान्ते क्षणिकैकान्ते वा क्रम-योगपद्ये संभ वतः ; तथाहि-पूर्वमेकं कार्य कृत्वा पुनः अन्यस्यं करणं क्रमः, तेन नित्यस्य न तावत् कार्यकर्तृत्वं युक्तम् / येन हि स्वभावेन तत् पूर्व कार्य करोति तेनैव यदि 25 पाश्चात्यम् ; तर्हि द्वयोरपि कार्ययोः एककालता स्यात् , तथा च पाश्चात्यमपि कार्य पूर्व 1 पृ० 361 पं० 1 / 2 द्विविधोऽत्र हि आ० / “अनेकान्तो हि द्वेधा'।" प्रमेयक० पृ० 93 उ० / ३-नि तत्सं-श्र० / .4 संभवति यत एव साक्षात्करणं संभवति न केवलं भां०, श्र० / 5 "अर्थक्रयासमर्थ यत्तदत्र परमार्थसत् / " प्रमाणवा. 3 / 3 / 6 अन्यस्य वा क्रिया करणं भां०, श्र०। 7 "येन हि स्वभावेन आद्यामर्थक्रियां करोति तेनैव उत्तराणि कार्याणि समासादितस्वभावान्तरः करोति'." तत्त्वोप० पृ. 126 / साधनश्च

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598