Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 569
________________ लघी० प्रमाणप्र० का० 8 ] क्षणभङ्गवादः 379 . ___ अत्र प्रतिविधीयते / यत्तावदुक्तम्'-' यत् सत्' इत्यादि, तत्र किमिदं सत्त्वं नाम-सत्ता ____ सम्बन्धः, प्रमाणविषयत्वम् , अर्थक्रियाकारित्वं वा ? प्रथमपक्षे उक्तरीत्या बहिरन्तश्च क्षणिकत्व भागाऽसिद्धत्वम् , सत्तासम्बन्धस्य सामान्यादिष्वसंभवात् / अपमुपवर्णयतः सौत्रान्तिकस्य विस्तरतः प्रतिविधानम् " सिद्धान्तश्च, तल्लक्षणसत्त्वस्य सौगतैरनभ्युपगमात् / प्रमाणवि षयत्वमपि प्रतिपदार्थ भिद्यते, न वा ? यदि भिद्यते; तदा अर्थ- 5 स्वरूपवद् विभिन्नस्वरूपत्वात् नैकप्रत्ययविषयम् , अतः अनन्वयात् न हेतुत्वं स्यात्। अथ न भिद्यते; तदा प्रतीयते, न चा ? यदि न प्रतीयते; कथमस्ति ? प्रतीयते चेत् ; तर्हि नामान्तरण सत्तैव उक्ता स्यात् , तत्सम्बन्धे च उक्तदोषाऽनुषङ्गः / प्रमाणविषयत्वस्य च तदन्तरेण सत्त्वे अनवस्था / स्वतः सत्त्वे अर्थानामपि स्वत एव तदस्तु किं ततः तत्कल्पनया ? विरुद्धञ्चेदम्प्रमाणविषयत्वलक्षणं हि सत्त्वमक्षणिकसमस्तवस्तुविषयं प्रसिद्धम् तच्च अक्षणिकत्वमेव प्रसाध- 10 यति इति / __ अर्थक्रियाकारित्वलक्षणमपि सत्त्वम् असिद्ध-विरुद्ध-अनैकान्तिक-कालात्ययापदिष्टदोषदुष्टत्वान्न क्षणिकत्वसाधनायालम् / तत्र असिद्धत्वं तावत्-अर्थक्रियाकारित्वं हि अर्थक्रियाहेतुत्वमुच्यते, तच्च असत्यामर्थक्रियायां दुरवबोधम् / नहि भावानां नानाविधशक्तियुक्तानां दर्शनमात्रादेव तत्तत्कार्यकरणशक्तियुक्तत्वं गृहीतुं शक्यम् / योग्यता-क्षणिकत्वे गृहीतेऽपि वस्तुस- 15 द्भावे न शक्येते निश्चेतुम् इति भवद्भिरेव अभ्युपगमात् / ननु संभावनामात्रेण अत्रार्थक्रियाकारित्वमवगम्यते, संभाव्यते हि एतत् ‘करिष्यति अयमर्थक्रियाम्' इति; ननु संभावनाऽप्यत्र केनावष्टम्भेन प्रवर्तते ? तत्सजातीयस्य अर्थक्रियायां दृष्टायामिति चेत् ; तत्रापि तुल्यः पर्यनुयोगः, तत्रापि तत्सजातीयेऽर्थक्रियादर्शनात् तत्कारित्वाऽवगमेऽनवस्था। भवदर्शने च अर्थानामत्यन्तभेदात् सजातीयत्ववार्ताऽपि दुर्लभा इत्युक्तं सामान्यपरीक्षाप्रघट्टके / अतः अर्थ- 20 क्रियाकारित्वमसिद्धमेव / विरुद्धञ्च-अक्षणिक एवार्थे क्रमाऽक्रमाभ्यां तत्कारित्वस्य संभवात् / नहि क्षणिकोऽर्थः क्रमेण अर्थक्रियां कर्तुं क्षमः देशकालस्वभावकृतक्रमाऽसंभवात् / एक एव हि पदार्थः किञ्चित् कार्य विधाय पुनरपेक्षितसहकारिसन्निधेरुपात्तसामर्थ्यान्तरो देशकालभेदेन कार्यान्तरं कुर्वाणः ‘क्रमेण करोति' इति युक्तम् , क्षणमात्रस्थायित्वे चार्थस्य एवंविधं क्रमकारित्वमयु- 25 . क्तम् / निरंशत्वेन युगपदनेकशक्तयात्मकत्वाभावतः तस्य अनेककार्याणां युगपत्करणमपि अतिदुर्लभम् , एतच्च सन्तानभङ्गार्वंसरे प्रपञ्चतः प्रपञ्चितम् / ततः अर्थक्रियाव्यापकयोः क्रम-यो . 1 पृ० 375 पं० 7 / 2 अर्थस्वरूपत्वान्नैकप्रत्ययत्वम् आ० / 3 अनन्वयहेतुत्वम् ब०, ज० / ४-त्वं शक्यम् आ० / 5 क्षणिक ब०, ज०। 6 असंभवात् ब०, ज० / ७-सन्निधिआ० / 8 पृ. 9 / 9 तयोऽर्थ- आ०। "क्षणिकेष्वपि इत्यादिना भदन्तयोगसेनमतमाशङ्कते

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598