Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 510
________________ 320 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० [ न्यायसू० 112 / 7] 'विचार्यमाणौ पक्षप्रतिपक्षी प्रकरणम, तस्य चिन्ता संशयात् प्रभृति आनिर्णयात् यद्यपि भवति, तथापि इह विमर्शात्मिकैव गृह्यते, सा च विशेषाऽनुपलम्भादेव भवति, स एव च विशेषाऽनुपलम्भो यदा निर्णयार्थमपदिश्यते तदा तत् प्रकरणमनतिवर्तमानत्वात् प्रकरणसमो भवति / यथा 'नित्यः शब्दः अनित्यधर्माऽनुपलब्धेः आकाशवत्' इति एकेन उक्त द्वितीयः प्राह-अनित्यः शब्दः नित्यधर्मानुंपलब्धेः घटवत् , न च द्वयात्मकानि वस्तूनि युज्यन्ते / प्रमातारस्तु स्वरूपमेषां नियतमनवधारयन्तो भ्राम्यन्ती, (न्तीति)। साध्यसमस्य लक्षणम्-''साध्याऽविशिष्टः साध्यत्वात् साध्यसमः।" [ न्यायसू० 1 / 28 ] प्रतिवादिनं प्रति साधयितुं यद् उपादीयते तत् साध्यम् , तदविशिष्टो हेतुः साध्यसमः / कथं हेतोः साध्येन तुल्यता इति चेत् ? साध्यत्वात् , यथा मीमांसकं प्रति 'अनित्यः शब्दः कृतकत्वात् घटवत्' इति / ____ कालात्ययापदिष्टस्य लक्षणम्-“कालात्ययापदिष्टः कालातीतः।" [ न्यायसू० 1 / 2 / 6 ] हेतोः प्रयोगकालः प्रत्यक्षागमाऽबाधितपक्षपरिग्रहाद् अनन्तरः, तम् अतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः। यथा अनुष्णः तेजोऽवयवी कृतकत्वात् घटवत् , ब्राह्मणेन सुरा पातव्या द्रवद्रव्यत्वात् क्षीरवत् इति / 1 “विमर्शाधिष्ठानौ पक्षप्रतिपक्षौ उभौ प्रकरणम् , तस्य चिन्ता विमर्शात् प्रभृति प्राङ् निर्णयात् यत् समीक्षणम् सा जिज्ञासा यत्कृता स निर्णयार्थ प्रयुक्तः उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते / ..." न्यायभा० 1 / 2 / 7 / न्यायमं० पृ० 602 / 2 “तथापीह विमात्मिकैव गृह्यते / स यस्माद् भवति / कस्माच सा भवति ? विशेषानुपलम्भात् / स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत् प्रकरणमनतिवर्तमानत्वात् प्रकरणसमो भवति / " न्यायमं० पृ० 602 / ३-नुपपत्तेः आ०। ४-मेतेषां भा०, श्र० / ५-तीत्थं ब०, ज०, भां० / "प्रमातारस्तु रूपमेषां नियतमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति ।"न्यायमं०६०२ / 6 “साध्येनावशिष्टः साधनीयत्वात् साध्यसमः / अयमप्यसिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः / " न्यायभा०, न्यायवा०, 1 / 2 / 8 / “अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत्साधयितुमुपादीयते तत्साध्यम्"तदविशिष्टो हेतुः साध्यसमः, कथं साध्येन तुल्यता ? इति चेदाह-साध्यत्वादिति / " न्यायमं० पृ.६०६ / 7 “अतीतकालं नाम यत् पूर्व वाच्यं तत् पश्चादुच्यते तत् कालातीतत्वादग्राह्यं भवति / " चरकसं० पृ. 267 / 8 "हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः, यत्र च प्रत्यक्षानुमानागमविरोधः स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपतति, सोऽयं कालस्यात्ययेन अपदिश्यमानः कालातीत इति / " ता. टी० पृ० 347 / हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव"उष्णो न तेजोऽवयवी कृतकत्वात् घटादिवत् / ब्राह्मणेन सुरा पेया द्रवत्वात् क्षीरनीरवत् // " न्यायमं० पृ०६१२। “प्रत्यक्षागमविरुद्धः कालात्ययापदिष्टः। न्यायकलिका पृ० 15 / 9 "दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेनं सुरा पेया द्रवद्रव्यत्वात् क्षीरवदिति / .." न्यायवा. ता. टी. पृ. 340 / न्यायसार पृ० 11 //

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598