Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ लघी० प्रमाणप्र० का०७ ] षोडशपदार्थवादः 339 नुषङ्गात् / न च जल्पवितण्डाभ्यां निखिलबाधकनिराकरणं' कर्तुं शक्यम् छलाद्युपक्रमपरतया ताभ्यां संशयस्य विपर्ययस्य वा जननात् / तत्त्वाध्यवसाये सत्यपि हि परनिर्मुखीकरणप्रवृत्तौ प्राश्निकाः तत्र संशेरते विपर्यस्यन्ति वा-'किमस्य तत्त्वाध्यवसायोऽस्ति किंवा नास्ति' इति, नास्त्येव' इति वा / परनिर्मुखीकरणमात्रे तत्त्वाध्यवसायरहितस्यापि प्रवृत्त्युपर्लंम्भात् तत्त्वोपप्लववादिवत्। ततो वाद एव एकः कथाविशेषः तत्त्वाध्यवसायसंरक्षणफलः लाभपूजाख्यातिहेतुः निःश्रेयस- 5 शास्त्रे अभ्युपगन्तव्यः न पुनर्जल्पवितण्डे तद्विपर्ययात् / एतच्च प्रमेयकमलमार्तण्डे संप्रपञ्चं प्रपश्चितम् इह द्रष्टव्यम् / / __ हेत्वाभासाश्च अस्माकमभिमता एव,किन्तु तैः मोक्षशास्त्रे निर्दिष्टैः न किञ्चित् प्रयोजनम् , अन्यथा प्रत्यक्षाद्याभासानामपि निर्देशप्रसङ्गात् षोडशपदार्थसंख्याक्षतिप्रसङ्गः / प्रत्यक्षादिप्रमाणनिर्देशसामर्थ्यादेव तदाभासानां लब्धत्वादनिर्देशे अवयवनिर्देशसामर्थ्यादेव हेत्वाभासा- 10 नामपि लब्धत्वादनिर्देशोऽस्तु अविशेषात् / छलानि तु बालक्रीडाप्रायाणि न प्रामाणिकानां निःश्रेयसार्थिनामवलम्बयितुमुचितानि / जातयस्तु दूषणाभासा हेत्वाभासैरेव सगृहीताः किमिति अतः पृथगुय॑न्ते, न च एतोसामियत्ता कर्तुं पार्यते, युष्माभिरपि आसामानन्त्येने अभ्युपगमात्। यदाह "भाष्यकार:" सत्यपि आनन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारा उच्यन्ते न संख्या- 15 नियमः क्रियते / " [ न्यायमं० पृ० 622 ] इति / परस्परविवेकेन उपलक्षणार्थ तर्हि तासामुपादानम् ; इत्यप्ययुक्तम् ; उपात्तानां परस्परविवेकेन उपलक्षणेऽपि अनुपात्तानामुपलक्षणाऽसंभवात् / कतिपयतत्प्रकाराणां तद्विवेकेन उपलक्षणार्थ तल्लक्षणप्रणयने च मिथ्योत्तरं जातिः” [न्यायविनि० 2 / 202] "इत्येतावल्लक्षणं प्रणेतव्यम् सकलतद्वयक्तिव्यापकत्वात् / एवं निग्रहस्थानानामपि अनन्तत्वात् न इयत्ता कर्तुं शक्या / तदानन्त्यं च भवद्भिरेव अभि- 20 प्रेतम्-"विप्रतिपत्त्यप्रतिपत्तिप्रकारस्य बहुत्वेऽपि द्वाविंशतिर्निग्रहस्थानानि प्रदर्श्यन्ते"[ ] १-णं शक्यं-आ० / २-करणे प्रवृ-श्र० / 3 "परनिर्मुखीकरणमात्रे तथाव्यवसायरहितस्यापि प्रवृत्तिदर्शनात् तत्त्वोपप्लववादिवत् / " तत्त्वार्थश्लो० पृ. 279 / ४-लम्भात् ततो-आ० / 5 पृ० 194 / तत्त्वार्थश्लोकवार्तिकेऽपि (पृ. 278) / 6 सप्रपञ्चमिह उह्यन्ते भां० / सप्रपञ्चितम् इ-आ०, ब०, ज० / 7 छलादीनि ब०, ज०, भां०। ८-च्यते आ०, ब०, ज० / -ह्यन्ते श्र० / 9" मिथ्योलराणामानन्त्यात् शास्त्र वा विस्तरोक्तितः / साधादिसमत्वेन जातिर्नेह प्रतन्यते // 206 // " 'न्यायवि. द्वि० परि०, पृ०५२७ उ० / 10 " तद्विकल्पाजातिनिग्रहस्थानबहुत्वम् / " न्यायसू० 1 / 2 / 20 / 11 भाष्ये नोपलब्धमिदं वाक्यम् / न्यायमञ्जयां तु (पृ. 622) 'सत्यप्यानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवर्णितं न तु तत्संख्यानियमः कृतः / इत्यस्ति / 12 "तत्र मिथ्योत्तरं जातिः यथानेकान्तविद्विषाम् / दध्युष्ट्रादेरभेदत्वप्रसङ्गादेकचोदनम् // " न्यायवि० पृ. 526 उ०। प्रमाणसं० परि० 6 / 13 इत्येतावदेव तल्लक्ष-श्र० /

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598