Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 506
________________ 316 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्र [2 विषयपरि० ऽयम् ? इति चेत् ; तत्त्वज्ञानार्थम् अनुमानप्रमाणप्रवृत्त्यर्थम् / तर्कविविक्तं हि विषयं प्रमाणानि परिच्छिन्दन्ति इति प्रमाणाऽनुग्राहकस्तर्कः / ___साधनोपालम्भजन्मा तत्त्वावबोधो निर्णयः / सूत्रञ्च-" विमृश्य पक्ष-प्रतिपक्षाभ्यामर्थाव धारणं निर्णयः / " [न्यायसू० 11 / 41 ] विमृश्य-'अनित्यः शब्दो नित्यो वा' इति सन्दिा , 5 पक्ष-प्रतिपक्षाश्रितत्वात् साधनोपालम्भौ 'पक्षप्रतिपक्षौ' इत्युक्तौ ताभ्याम् , अर्थस्य साध्यस्य 'अनित्य एवायम् कृतकत्वात्' इत्यवधारणं निर्णयः / ___वीतरागकथावस्तुनिर्णयफलो वादैः / तथा च सूत्रम्-" प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः।" [ न्यायसू० 1 / 2 / 1 ] इति / वस्तु 1 " तर्को न प्रमाणसंगृहीतो न प्रमाणान्तरं प्रमाणानामनुग्राहकः तत्त्वज्ञानाय कल्पते / " न्यायभा० पृ०१०। "कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति ? अनवधारणात्-अनुजानात्ययमेकतरं धर्म कारणोयपत्त्या, न त्ववधारयति"एवमेवेदमिति / कथं तत्त्वज्ञानार्थ इति ? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहात् भावितात् प्रसन्नादनन्तरं प्रमाणसामर्थ्यात् तत्त्वज्ञानमुत्पद्यते इत्येवं तत्त्वज्ञानार्थः / " न्यायभा० 1 / 1 / 40 / “कथं पुनरयं तत्त्वज्ञानार्थं भवति ? प्रमाणविषयविवेचनात् / प्रमाणविषयमनेन विविनक्ति, 'अयमों युक्तः' इति, प्रमाणानि पुनः प्रवर्त्तमानानि तर्कविविक्तमर्थ तथाभूतमवगमयन्तीति / " न्यायवा. पृ० 141 / 2 “पक्षशब्देन पक्षविषयं साधनमुच्यते, प्रतिपक्षशब्देन पक्षविषयस्य साधनस्य उपालम्भः; ताभ्यां साधनोपालम्भाभ्यां यदर्थावधारणं स निर्णय इति / " न्यायवा० 1 / 1 / 41 / " पक्षप्रतिपक्षविषयसाधनोपालम्भपरीक्षया तदन्यतरपक्षावधारणं निर्णयः / " न्यायकलिका पृ० 13 / 3 "तत्र वादो नाम यत् परस्परेण सह शास्त्रपूर्व विगृह्य कथयति, स वादो द्विविधः संग्रहेण जल्पो वितण्डा च / " चरकसं० पृ. 262 / “वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावसानः वाक्यसमूहः / " न्यायभा० पृ. 11 / “वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा। सा द्विविधावीतरागकथा, विजिगीषुक्था चेति / यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थ साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञयोच्यते / " न्यायसार पृ० 15 / " वादो नाम वीतरागयोः पक्षप्रतिपक्षपरिग्रहपूर्वकः प्रमाणतर्कपूर्वकसाधनोपालम्भप्रयोगे क्रियमाणे एकपक्षनिर्णयावसानो वाक्यसमूहः / न्यायकलिका पृ० 13 / “अपरे (वासुबान्धवाः) तु स्वपरपक्षयोः सिद्धयसिद्धयर्थं वचनं वादः / " न्यायवा० प०१५०।५ "एकाधिकरणस्थौ विरुद्धौ धौ पक्षप्रतिपक्षी प्रत्यनीकभावात् अस्त्यात्मा नास्त्यात्मा इति, नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ यथा नित्य आत्मा अनित्या बुद्धिरिति / " न्यायभा० 1 / 2 / 1 / “वस्तुधर्मों एकाधिकरणौ विरुद्धौ एककालौ अनवसितौ / वस्तुधर्मों इति वस्तुविशेषौ वस्तुनः... नानाधिकरणौ विचारं न प्रयोजयतः उभयोः प्रमाणोपपत्तेः तद्यथा अनित्या बुद्धिनित्य आत्मेति / अविरुद्धावप्येवम् , यौ विरुद्धौ तौ विचारं प्रयोजयतः नाविरुद्धौ, तद्यथा क्रियावद्व्यं गुणवच्चेति / एककालाविति, भिन्नकालयोः न विचारप्रयोजकत्वं प्रमाणोपपत्तेः, यथा क्रियावद्व्यं निष्क्रियञ्च कालभेदे सति / अनवसिताविति, अनिश्चितौ विचारं प्रयोजयतो नावसिताविति, निर्णयोत्तरकाल विचाराभावात् / तावेतौ विरुद्धावे

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598