Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 387
________________ lle FIIIIIIIII AININISle. श्रुतशीलः पुनस्तस्मै देशार्द्धस्य प्रदानतः / गृहीतुं कूलराज्यं तत् निर्दोषमतिरन्वशात् // 23 // ऋतुपर्णस्ततस्तस्मिन् बान्धवे जितकासिनि / द्वयोर्मन्त्रं निराचक्रे निर्व्याजं व्याजहार च // 24 // देव ! भ्रामरिकं युद्धं विभागः कितवे च कः ? / तदुरोदरमेवैकं प्रतीकारोऽत्र युज्यते // 25 // अहं ते कथयिष्यामि तत् किश्चिद् द्यूतमुत्तमम् / पुष्करं येन जित्वा त्वं राज्यं प्रत्याहरिष्यसि // 26 // पूर्व सर्वाङ्गशालिन्या मालिन्या सह कान्तया / प्राप्तोऽभूवमहं राजन् ! प्रणन्तुं परमेष्ठिनम् // 27 // तदीयभुवनद्वारि रक्तचन्दनचर्चितः / अदृश्यत ज्वलन्नेत्रः क्षेत्रपालो भयङ्करः // 28 // तं रक्तकणवीरस्रशृङ्गारस्फारवक्षसम् / कटीतटनटद्धीरवीरघण्टाविराजितम् // 29 // रमसोत्तालवेतालनृत्यन्मृत्युकुशीलवम् / खड्गखेटकखाद्कारक्षुभितक्षुद्रखेचरम् वीक्ष्य विक्षिप्तचित्ता सा समासादितसंभ्रमा / सुभ्ररुवाच सावज्ञं विनिद्रकमलानना / / 31 // त्रिभिर्विशेषकम् // अहो दिगम्बरः खेटशिरोहस्तः श्ववाहनः / क्षेत्रपालः त्रपालस्य घृणासौभाग्यवर्जितः // 32 // असावपि हि देवेषु प्रामोति गणनापदम् / महावृक्षोऽपि वा याति जात्या किं न द्रुमक्रमम् // 33 // इति तस्याः प्रजल्पन्त्याः सद्यस्तन्मूर्तिमध्यतः / निर्जगाम स्फुटा वाणी सिंहनादसहोदरा // 34 // आः पापे ! यन्महामोहादुपहासं करोसि मे / तदागामिचतुर्दश्यां करिष्यामि वधं तव // 35 // दुःश्रवं तद् वचः श्रुत्वा मालिनी सहिता मया / प्रसादयितुमारेमे भैरवं भक्तितत्परा // 36 // FILAIHIIIIIII

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420