Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 391
________________ = = = IIIIIIIIIIEIHIFAL जाननपि नलो मुष्टिं क्रीडारसविवृद्धये / परदायकमारेमे किश्चिदप्यन्तरान्तरा // 8 // जयः पराजयश्चासीद् यावदल्पोऽभवत् पणः। महाद्यूतभरे लेभे स्वदायं नैव कूबरः ततः पराजयक्षोभात् प्रभूतमुपढौकयन् / क्षेमेणापि नलेनोचे मुष्टिः सनियतामिति जीयमानेऽमुना तस्मिन् बुम्बारवपरायणान् / दृशैव क्रौश्चकर्णारिदमनादीनवारयत् // 11 // हस्त्यश्वरथदुर्गाणि ग्रामाकरपुराणि च / हेलया हारयामास नले पुष्करपार्थिवः // 12 // मुद्रया सहिते कोशे कोष्ठागारे च हारिते / अपि शृङ्गारमात्मीयमुपढौकयति स्म सः किमत्र बहुना राज्ञा नलेन स तथा जितः / यथा तेन पुरा राजा नल एव जितोऽभवत् // 14 // केन हि स्वीकृतं द्रव्यं कस्य द्यूतं वशंवदम् / कस्मिन् पण्याङ्गना रक्ता कं लक्ष्मीन विमुश्चति // 15 // यस्मिन् पुत्र: कलत्रं च नासाकणं च हार्यते / न हि द्यूतस्य तस्यास्ति तुलया व्यसनं परम् // 16 // अस्ति पापात्मकं सौख्यं व्यसनेष्वपि केषुचित् / हानौ निःशेषसौख्यानां द्यूतमेकं व्यवस्थितम् // 17 // अकारानिलयं बन्धं प्रजागरमनुत्सवम् / विभवभ्रंशमस्तेनं अपर्जु करघर्षणम् // 18 // व्यामोहमसुरापाणं विषयत्यागमव्रतम् / वितनोति मनुष्याणां दुरन्तं हि दुरोदरम् // 19 / / युग्मम् // जितमर्थमनिर्गम्य कितवस्य कुतः सुखम् / न स्वस्था स्यादसृक् पीतमवान्त्वा जलसर्पिणी // 20 // प्रविवेश समं सर्वैः पार्थिवैर्निषधो नृपः / उत्तुङ्गतोरणस्तम्भां राजधानी निजां नलः // 21 // IAFII II4ISISI IIshe

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420