Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 405
________________ // 4 // // 7 // ET- II A BIGATHI - IIIIIsle // 9 // // 10 // क्षुधितस्य क्षुधा भना तृषितस्य तृषा हृता / श्रान्तस्य च श्रमश्छिन्नः स्वशक्त्या प्रतिवासरम् अन्यदा प्रथमप्रावृट्समये समुपागते / सजीवधनमात्मीयं द्रष्टुं धन्यो बहिययौ वर्णावयवसम्बद्धैर्दूरादाहूय नामभिः / अलालयद् यथौचित्यं स धेनुमहिषीनिंजाः तदा च कश्चिदप्येकः कायोत्सर्गस्थितो मुनिः / तत्र त्रपापरित्राणमात्रवखावृतोऽभवत् स वृष्टिसकलक्लिष्टशरीरस्य महामुनेः / तस्य मूर्द्धनि धन्यः स्वं तत्र च्छत्रमधारयत् मुनिस्तस्येत्थमासन्ध्यमवन्ध्यपरिचर्यया / वायुवृष्टिव्यथावेगं निस्ततार सुदुस्तरम् अपृच्छच्च मुनि धन्यो नत्वा मधुरया गिरा / कुतः क गन्तुकामोऽसि ? कथ्यतां भगवन्निति मुनिरप्यूचिवान् पाण्ड्यदेशात् लङ्कापुरीं प्रति / नतये गुरुपादानां एष गच्छन् किलाभवम् इमं तु सांप्रतं वीक्ष्य वर्षासमयमागतम् / इहैव स्थातुकामोऽस्मि जन्तुबाहुल्यतो भुवः इदमाकर्ण्य धन्योऽपि तं नेतुं निजमन्दिरे / ददौ महिषमारोढुं पङ्कसङ्करशङ्कया योग्यं न यानमस्माकमित्युक्त्वा श्रमणाग्रणीः / पद्भ्यामेव पुरस्यान्तः समं तेन समाययौ तत्र पीयूषतुल्येन पयसा भक्तितत्परः / अकारयद् मुनि धन्यः पारणं पुण्यकारणम् सोऽपि तस्मै सभार्याय कुर्वन् धर्मानुशासनम् / प्रतिपाल्य मुनिः कल्पं जगाम गुरुसनिधी तदादि धर्मसंपच्या धूसरीधन्ययोस्तयोः / वहतोश्वारु गार्हस्थ्यं जज्ञे परिणतं वयः // 13 // // 14 // // 15 // = = // 17 // =

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420