Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 417
________________ Ele // 13 // // 14 // ISIT ISFILTI-IIIIIIFIFIII तिष्ठत्स्वपि हि सर्वेषु देवेषु वरुणादिषु / कुवेर ! तब तुल्या श्रीः कस्येह किल वर्त्तते क्रीडावनानि वनकल्पमहीरुहाणां चिन्तामणिस्थलभुवो भवतः समस्ताः। त्वं कामधेनुनिकटब्रजकोटिनाथस्त्वत्सन्निभो न विभवेन भवेऽस्ति कश्चित इति प्रतीहारगिरं निशम्य सुरः प्रयोगाय सुमङ्गलाय / सजीभवन्नईदुपास्ति पूर्व सुशाश्वतं चैत्यगृहं विवेश तत्र प्रणम्य भगवन्तमनन्तमन्तःसन्तापसन्ततिहरं परमेष्ठिनं सः। अभ्यर्च्य तत् तदुपचारभरैश्च भक्त्या चक्रे विचारचतुरः स्तुतिमित्थमर्थ्याम् परमया रमया परिशीलितं शमितया मितया विजितक्रुधः। विनवदं भवदजिसरोरुहं सुकृतिनः कृतिनः परिचिन्वते तव पादपद्मयुगमत्र सतां शरणं विधाय चिरमत्रसताम् / विषयार्णवेऽपि न भयं पततां वियतीव पक्षियुगलं पतताम् त्वं दर्शनादपि ददासि समीहितार्थान् त्वच्चिन्तनादपि विनश्यति विघ्नवर्गः / यत्नेन नाथ ! विहिता तव पर्युपास्तिर्भव्यात्मनां बहु भवभ्रमणं रुणद्धि अपाराय साराय शश्वद् नमस्ते प्रकृष्टाय शिष्टाय दिष्ट्या नमस्ते / IATISFII A LEII A TEII S THEII AATEIN S // 17 // // 18 // // 19 //

Loading...

Page Navigation
1 ... 415 416 417 418 419 420