Book Title: Nadi Darpan
Author(s): Krushnalal Dattaram Mathur
Publisher: Gangavishnu Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तनिश्लोक्याख्यया भूषणाख्यया रामानुजी याख्यया च व्याख्यया समेतस्य श्रीवाल्मीकिरामायणस्य
प्रसिद्धिपत्रिका |
भो भो विद्यापारावारपारीणा इदं विदाङ्कुर्वन्त्वत्रभवन्तः - तनिश्लोक्याख्यया भूषणाख्यया रामानुजीयाख्यया च व्याख्यया समेतं श्रीवाल्मीकिरामायणम् अत्युत्तमतैलङ्गदेशीयपुस्तकमालोच्य पण्डितैः संशोधितं तच्च सम्प्रति सुव्यक्तैः स्थूलसूक्ष्माक्षरेलक्ष्मीवेङ्कटेश्वरमुद्रणयन्त्रे मुयते, तस्य च नागेशप्रभृतिविनिर्मिताः सन्ति यद्यपि बह्वचो व्याख्याः, तथापि सहृदयहृदयाह्लादकनानाविधाऽपूर्वार्थान्वेषणे प्रयतमानैरार्यकुलोचितधर्ममर्यादाविचारशीलैर्महाशयैर्निर्विशेषत्वेन सविशेषत्वेन च बह्मस्वरूपप्रतिपादकवेदान्तवाक्यानां समीचीनतर्कसहकृत विषयभेदव्यवस्थापनेन तात्पर्यार्थनिर्णायकतया श्रीवाल्मीक्यभिप्रायानुगा रामानुजीयव्याख्यातनिश्लोकीव्याख्यासमेता भूषणाख्यव्याख्याऽवश्यं निरीक्षणीयेति, मन्येऽहं निरीक्षणेनाभिज्ञानामवश्यं जिवृक्षा भवेदिति । व्याख्याद्वयोपेतस्य भगवद्गुणदर्पणाख्यस्य श्रीविष्णुसहस्त्रनाम भाष्यस्य
प्रसिद्धिपत्रिका |
अनुष्टुप् श्लोकात्मकनिरुक्त्याख्यव्याख्यासमेतं, नामनिर्वचनोपयोगिप्रकृतिप्रत्ययप्रदर्शक निखिलतन्त्रप्रधानीभूत पाणिनीयस्मृतिसूत्रगर्भितनिर्वचनाख्यद्वितीयव्याख्यासमेतं च, सहृदयहृदयाह्लादकं श्रीभगवद्गुणदर्पणाख्यं श्रीविष्णुसहस्रनामभाष्यमासीत्तैलङ्गदेशाक्षरैद्रविडदेशाक्षरैश्व मुद्रितम्, तच्चास्मदीयदेशेऽतीवदुर्लभतरमिति मनसि निधाय सकलजनोपकतयेऽतिप्रयासेन तच्च तैलङ्गदेशादिहानाय्य देवारैर्लेखयित्वा मुहुर्मुहुरभिज्ञजनद्वारा संशोध्य च, स्थूलसूक्ष्माक्षरे - मनोहरं मुद्रयते, येषां महाशयानां स्याज्जिवृक्षा, तैर्द्वततरम् सूचना कार्या, यतस्तत्पुस्तकप्रेषणेऽहमुव्यतोभवेयमिति मे विज्ञप्तिः
श्रीकृष्णदासात्मजो गंगाविष्णुः "लक्ष्मीवेंकटेश्वर " मुद्रणयन्त्रम् कल्याण - ( मुंबई )
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108