________________
मूर्खन्ति कुतीर्थिका न च न [वा] नाकन्ति वा वादिनो, लोकाः केचन किंकरन्ति न च के खर्वन्ति वा गर्विताः । शिष्टः शिष्यति को न पुत्रति न कः साधुर्न मित्रन्ति वा,
के मित्राः करुणास्पदन्ति न च के यस्याग्रतो जन्तवः ॥ ४३ ॥ यस्मिन्मोहवनप्लुषि स्मरपिषि ध्वस्तोग्ररागत्विषि,
क्षीणद्वेषदवार्चिषि स्मयमुषि ध्यान्ध्यं सतां जक्षुषि । दृष्टे पुण्यपुषि प्रशान्तवपुषि प्रत्तप्रशस्ताशिषि,
(६)
द्रष्टुर्ध्यानजुषि क्षणात्क्षतरुषि प्रीतिर्बभौ चक्षुषि ॥ ४४ ॥ अनेकवि[ध]नायकस्तुतपदः सदोमाश्रयः, स्फुरद्वृषपरिग्रहस्तुहिनधामरम्याकृतिः । प्रभूतपतिरद्भुतश्रुतविभूतिरस्तस्मरो, महेश्वर इवोदभूदभयदेवसूरिस्ततः ॥ ४५ ॥ हर्षोत्कर्षोरुपुष्यत्पुलककणमिषा यद्वचः शुश्रुवांसः,
स्फीतान्त:[पुण्य?]पुञ्जोपचितमिव दलन्मोदकन्दोत्करञ्च । श्रद्धाम्बूत्सेकसुस्थं (?) परमशिवसुखप्राज्यबीजप्रभूतं,
प्रोद्भूतं कूरपूरप्रथितमिव वपुर्बभ्रिरे भव्यसभ्याः ॥ ४६ ॥ दर्पासेवाविशेषान् दश नव निदानानि माना तथाष्टौ,
भीतिः सप्तापभाषा: षडपि च विषयान्पञ्च संज्ञाश्चतस्रः । त्रीन् दण्डान् बन्धने द्वे प्रथमगुणभृदप्येकमज्ञानमित्थं,
मिथ्यादृग्बन्धहेतून् व्यमुचदपरथा [पञ्च ] पञ्चाशतं यः ॥ ४७ ॥ श्री वीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे,
यः स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः । तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिष्यत्शुभां
तट्टकामुदीघटत्तमखिलं श्रीसंघतोषाय यः ॥ ४८ ॥ सत्तर्कन्यायचर्चार्चितचतुरगिर : श्रीप्रसन्नेन्दुसूरिः,
सूरि श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः सञ्चरिष्णूरुकीर्तिः,
स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥ ४९ ॥ सद्गन्धेन च सद्रसे न च [ शुभ ] स्पर्शे न चेष्टे स्वरे,
पादाते न च हास्ति न च न वा श्वीये न च श्रीगृहे । साम्राज्ये न च वैभवे न च न च स्त्रैणे न चैन्द्रे पदे,
Jain Education International
यस्यात्माऽसृजदागमस्थिरधियोऽन्यत्र क्व विद्वान्न च ॥ ५० ॥
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :)
For Personal & Private Use Only
www.jainelibrary.org