Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ जून २०१२ आहोस्विदनुमानेन उदश्चिदागमेनोतोपमानेन किंवाऽर्थापत्त्येति विकल्पपञ्चतयी विषयपञ्चतयीव त्रिभुवनजनमनांसि क्षोभयन्ती भवत्पुरः प्रगल्भते । ४१ तत्र न तावत् प्रत्यक्षलक्ष्यो भवति सर्वज्ञः । विद्यमान एव हि पदार्थः प्रत्यक्षलक्ष्यतामाक्षिपति । सर्वज्ञस्तु व्योमारविन्दवदविद्यमान एव । तन्न तेन लक्ष्यते विचक्षणैरपि । नाऽप्यनुमानेनाऽनुमीयते । अनुमानं हि धूम-धूमध्वजयोरिव लिङ्ग-लिङ्गिनोरविनाभावग्रहणे सति प्रवृत्तिमातितांसति । न चाऽत्र सर्वज्ञसद्भावसाधने(साध्ये?)नाऽविनाभूतं किमपि लिङ्गमुपलभ्यते । ततः तदप्युदासीनमेव । नाऽप्यागमेनाऽवगम्यते सर्ववेदी । आगमा हि सर्वेऽपि परस्परविरुद्धार्थाभिधायिनः । क्वाऽपि सर्वज्ञः स्थाप्यते, क्वाऽपि सर्वज्ञ उत्थाप्यते । ततः को नामाऽऽगमः प्रमाणीक्रियते ? तन्नाऽऽगमः सर्वज्ञाभ्युपगमहेतुः । नाऽप्युपमानं सर्वज्ञसत्तापरिज्ञानं कर्तुमुत्सहते । यतः कथञ्चिद् कस्यचिद् दृष्टगोरूपस्य नागरिकस्याऽरण्यानीं गतस्य गवयदर्शने सति खुरककुद्विषाणादिसादृश्योपलम्भाद् ‘गौरिवाऽयं गवय’ इत्युपमानज्ञानमाविर्भवति । न च केनाऽप्यंशेन सर्वज्ञस्य सादृश्यं कस्याऽपि दृश्यते, येनोपमानं तत्सत्तामाविर्भावयति । नाऽप्यर्थापत्तिः सर्वज्ञापत्तिमाविःकरोति । सा ह्येवं जायते । ‘पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्ते पीनत्वस्याऽन्यथानुपपत्त्या 'रात्रौ भुङ्क्ते' इति गम्यते । न च सर्वज्ञसत्तामन्तरेण कोऽप्यर्थो नोपपद्यते, येन सर्वज्ञस्याऽपि सत्ता समापाद्यते । तस्माद् नाऽस्ति सर्वज्ञः, तद्ग्राहक–प्रमाणपञ्चकाभावात्, आकाशकुसुमवत् । उक्तं च — “प्रमाणपञ्चकं यत्र, वस्तुरूपेण(पे न) जायते । वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥" इति पराकुर्वन्नाह (न्त आहु:) इदमनवद्यविद्याविशारदाः सदाचारविचारचतुराः सर्वात्मनाऽपि विदग्धमतयः प्रलपन्ति स्म प्राज्ञाः । परे सर्वज्ञापलापिनः पापिनः । यथा - प्रत्यक्षेण तावत् सर्ववेदी न दरीदृश्यते इति तदत्रैवं ते परिपृच्छ्यन्ते – किं भवद्भिः सर्वज्ञोऽपहूयते अत्र देशे सर्वत्र वा ? अस्मिन् काले सर्वकालं वा ? इति विकल्पचतुष्टयं कल्पान्तकालक्षुभिताम्भोनिधिचतुष्कमिव युष्मान् रसातलं प्रापयत् प्रसर्पति । तत्र यद्यस्मिन् देशे अस्मिश्च काले सर्वज्ञोऽध्यक्षेण न वीक्ष्यते इति, तदत्राऽर्थे सिद्धसाध्यता । अहमप्येवं मन्ये, सम्प्रत्यत्र देशेऽसत्त्वात् सर्वज्ञो नाऽवलोक्यते इति । अथ सर्वत्र देशे सर्वकालं

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37