Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
जून
-
२०१२
४७
तदेतत् पित्तज्वरोपरुद्धस्येव प्रलापनमात्रम् । न पुनर्विवक्षितार्थप्रसाधकमित्यपहस्तितव्यम् । तथापि विद्वज्जनमनोरञ्जनाय किञ्चिदुच्यते । तत्र यत् तावद् नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवदिति साधनमुपन्यस्तम् । तत्र प्रतिज्ञापदयोर्विशद्धं (विरुद्धत्वं) प्रकटमेव लक्षयामः । तथाहि - यदि सर्वज्ञो, नाऽस्ति कथम् ? नाऽस्ति चेत्, सर्वज्ञः कथम् ? इति ।
अथेत्थमाचक्षीथाः – परैः सर्वज्ञोऽभ्युपगम्यते । तेषामनिष्टसम्पादनार्थं सर्वज्ञ इत्युच्यते । तर्हि भवन्तं पृच्छामः । परकीयाभ्युपगमो भवतः प्रमाणमप्रमाणं वा स्यात् इति । यदि प्रमाणं तर्हि परैः सर्वज्ञस्याऽभ्युपगतत्वाद् निर्मूलतया तावकीनं प्रमाणत्वाभिमतं साधनमप्रमाणताकोटिमारोहतीति प्राप्तम् । अथाऽप्रमाणं, तर्हि प्रतिज्ञापदयोर्विरोधः तदवस्थ एवाऽवतिष्ठते ।
हेतुरप्याश्रयासिद्धः, प्रमेयाभावात् । अथ पर्याकुलितचेतोवृत्तिरेवं ब्रूया:परिकल्पितः प्रमेय इति । तर्हि सा विद्यमानस्याऽविद्यमानस्य वेति विकल्पौ जन्मान्तरोपात्तधर्माधर्माविवाऽव्याहतप्रसरौ पुरतोऽवतिष्ठेते । यदि विद्यमानस्य, व्यर्था परिकल्पना । तामन्तरेणाऽपि तस्य विद्यमानत्वात् । विद्यमानस्याऽपि च कल्पनेऽतिप्रसङ्गो, वेदस्याऽपि कल्पनापत्तेः । सतश्च प्रमाणोपन्यासेनाऽपि प्रतिक्षिप्तुमशक्यत्वेन विपरीतसाधनाद् विरुद्धश्च हेतुः स्यात् । अथाऽविद्यमानस्य कल्पनाऽभिधीयते । एवं सति न कश्चिदपि हेतुराश्रयासिद्धिमास्कन्देत् । तथा च सत्यनित्यः शब्दः चाक्षुषत्वात्, इत्यादेरपि गमकत्वप्रसङ्गः । तत्रापि कस्यचिद् धर्मिणः कल्पयितुं शक्यत्वात् ।
किञ्च प्रमाणपञ्चकाभावः किं ज्ञातः सर्वज्ञाभावं साधयेत् अज्ञातो वेति कलहंसयुगलमिव विमलं विकल्पयुगलममलमवतरति । यदि ज्ञात:, कुतो ज्ञप्तिरिति वाच्यम् । अपरप्रमाणपञ्चकाभावादिति चेत् सोऽपि कुतो ज्ञायते इति निर्लज्जकुट्टनीवाऽनवस्था पश्चाद् धावन्ती दुर्निवारा स्यात् । अथ प्रमेयाभावात् प्रमाणाभावः, तर्हि प्रमेयाभावे प्रमाणाभावः, प्रमाणाभावे च प्रमेयाभाव इति महासमुद्रोदकवद् दुरुत्तरमितरेतराश्रयत्वं समापनीपद्यते । अथाऽज्ञातः तर्हि अविशेषेणाऽऽविद्वदङ्गनादीनामपि सर्वज्ञाभावं गमयेत् । न चैतद् । गृहीतसङ्केतस्यैव तदभावप्रतिपत्तेरिति स्वरूपस्याऽपि ज्ञातुमशक्यत्वात् स्वरूपासिद्धश्च हेतुः ।
खरविषाणस्याऽपि दृष्टान्तत्वेनोपन्यस्तस्याऽपरदृष्टान्तमन्तरेणाऽसिद्धेरपर

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37