Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 28
________________ अनुसन्धान-५९ वह्नौ दाहकत्वस्य प्रतीयमानत्वात् । नाऽपि विरुद्धः, विपर्ययसाधने दृष्टान्ताभावात् । नाऽप्यनैकान्तिकः, विपक्षे वृत्त्याभावात् । दृष्टान्तोऽपि न साध्यविकलः साधनविकलो वा, हिमे शीतत्वस्य दाहकत्वस्य च सकलजगत्प्रतीतत्वात् ।* (**चिह्नान्तर्गतपाठस्य प्रकरणसङ्गतिः चिन्तनीया - सं.) तस्मात् सकलकलङ्कचक्रवालविकलेनाऽनुमानेन स्वसाध्यं साध्यते एवेति स्थितम् ।। __ अग्निशीतत्वस्थापनावादः पं. साधुरत्नगणिना स्वव(वा)चनाय लिखितः। प्रदीपनित्यत्वव्यवस्थापनम् अथैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावद् नित्यानित्यत्वव्यवस्थापने दिग्मात्रमुच्यते । तथाहि - प्रदीपपर्यायोपपन्नाः तैजसाः परमाणवः स्वरसतः तैलक्षयाद् वाताभिघाताद् वा ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तरमादायन्तो नैकान्तेनाऽनित्याः, पुद्गलद्रव्यरूपतया व्यवस्थितत्वात् तेषाम् । न ह्येतावताऽनित्यत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्पादः । न खलु मृदुद्रव्यं स्थासकोशकुशूलशिरावकघटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टं, तेषु मृद्रव्यानुगमस्याऽऽबालगोपालप्रतीतत्वात् । न च तमसः पौद्गलिकत्वमसिद्धं, चाक्षुषत्वान्यथानुपपत्तेः, प्रदीपालोकवत् । अथ यच्चाक्षुषं तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमस्तत् कथं चाक्षुषम् ? नैवम्, उलूकादीनामालोकमन्तरेणाऽपि तत्प्रतिभासात् । यैस्त्वस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यतो(ते), विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः, प्रदीपचन्द्रादयस्तु प्रकाशान्तरानपेक्षा ? इति सिद्धं तच्चाक्षुषम् । रूपवत्त्वात् स्पर्शवत्त्वमपि प्रतीयते शैत्यस्पर्शप्रत्ययजनकत्वात् । __ यानि त्वनिबिडावयवत्वमप्रतिघातित्व-मनुद्भतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्य-प्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि, तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि, तुल्ययोगक्षेमत्वात् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37