Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
६६
अनुसन्धान-५९
अतः स्मृतिप्रामाण्याद् मन्यामहे जातिः तावद् ब्राह्मणो न भवति ।
अथ मन्यसे ब्राह्मणः तावत् तेषां पिता, ततो ब्राह्मणा इति । यद्येवं दास्याः पुत्रा अपि ब्राह्मणजनिता ब्राह्मणा भवेयुः । न चैतद् भवतामिष्टम् । किञ्च यदि ब्राह्मणपुत्रो ब्राह्मणः तहि ब्राह्मणाभावः प्राप्नोति । इदानीन्तनेषु ब्राह्मणेषु पितरि सन्देहाद् गोत्रब्राह्मणमारभ्य ब्राह्मणीनां शूद्राभिगमात् । ततो जातिर्ब्राह्मणो न भवति । मानवधर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे -
"सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहाच्च शूद्रो भवति, ब्राह्मणः क्षीरविक्रयी ॥ आकाशगामिनो विप्राः, पतिताः मांसभक्षणात् ।
विप्राणां पतनं दृष्ट्वा, ततो मांसानि वर्जयेत् ॥" अतो मानवधर्मप्रामाण्याद् जातिः तावद् ब्राह्मणो न भवति । यदि जातिर्ब्राह्मणः स्यात् तदा शूद्रता नोपपद्यते । किं खलु दुष्टोऽप्यश्वः शूकरो भवति ? तस्माद् जातिरपि ब्राह्मणो न भवति ।
शरीरमपि ब्राह्मणो न भवति । कस्मात् ? यदि ब्राह्मणः स्यात् तर्हि पावको ब्रह्महा भवेत् । ब्रह्महत्या च बन्धूनां शरीरदहनाद् भवेत् । ब्राह्मणशरीरनिस्यन्दजाताश्च क्षत्रियवैश्यशूद्रा अपि ब्राह्मणाः स्युः । न चैतदिष्टम् । ब्राह्मणशरीरविनाशाच्च यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहादीनां ब्राह्मणशरीरजनितानां फलस्याऽपि नाशः स्यात् ।
ज्ञानमपि ब्राह्मणो न भवति । कस्मात् ? ज्ञानबाहुल्यात् । ये ये ज्ञानवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते क्वचित् शूद्राः छन्दोवेदव्याकरणमीमांसासाङ्ख्यवैशेषिकलग्नजीविकादिसर्वशास्त्रार्थविदः । न चैते ब्राह्मणाः स्युः । अतो मन्यामहे ज्ञानमपि ब्राह्मणो न भवति ।
आचारोऽपि ब्राह्मणो न भवति । कुतः ? यदि आचारोऽपि ब्राह्मणः स्यात्, ये आचारवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते च नटभटकैवर्तप्रभृतयः प्रचण्डतराचारवन्तो, न चैते ब्राह्मणा भवन्ति । तस्मादाचारोऽपि ब्राह्मणो न भवति ।
कर्माऽपि ब्राह्मणो न भवति । दृश्यन्ते हि क्षत्रियविट्शूद्रा यजनयाजना

Page Navigation
1 ... 30 31 32 33 34 35 36 37