Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
६८
अनुसन्धान-५९
शुश्रूषयैव तेषां धर्मो भवति । चतुर्पु वर्णेष्वन्ते भणनात् ते नीचा इति । यद्यैवं, इन्द्रोऽपि नीचः स्यात् । 'श्वयुवमघोनां' च सूत्रकरणात्, श्वा इति कुक्कुरः, युवा इति पुरुषः, मघवा इति सुरेन्द्रः । तयोः श्व-पुरुषयोरिन्द्र एव नीचः स्यात् । न चैतदिष्टं, किं वचनमात्रेण दोषो भवति ? तथाच - उमामहेश्वरौ, काकमयूरौ, दन्तौष्ठमिति लोकैः प्रयुज्यते । न च दन्ताः प्रागुत्पन्नाः उमा वा । केवलं वर्णसमासमात्रं क्रियते ब्राह्मणक्षत्रियविट्शूद्रा इति । तस्माद् या भवदीया प्रतिज्ञा 'ब्राह्मणशुश्रूषयैव तेषां धर्मो भवति' सा व्याहता । किं वाऽनिश्चितोऽयं ब्राह्मणप्रसङ्गः । उक्तं हि मानवे धर्मे -
"वृषलाफेनपीनस्य, निःश्वासोपहतस्य च । तत्रैव च प्रसूतस्य, ब्रह्मत्वं नोपलभ्यते ॥१॥ शूद्रीहस्तेन यो भुङ्क्ते, मासमेकं निरन्तरम् । जीवमानो भवेत् शूद्रो, मृतः श्वा स तु जायते ॥२॥ शूद्रीपरिवृतो विप्रः, शूद्री च गृहमेधिनी । वर्जितः पितृदेवाभ्यां, रौरवं सोऽधिगच्छति ॥३॥"
ततोऽमुष्य वचनस्य प्रामाण्यादनियतो ब्राह्मणप्रसङ्गः ।
किं चाऽन्यत् ? शूद्रोऽपि ब्राह्मणो भवति । को हेतुः ? इतीह मानवे धर्मेऽभिहितं -
"अरण्यागर्भसम्भूतः, कठिनो नाम महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥१॥ हरिणीगर्भसम्भूत, ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥२॥ कच्छपीगर्भसम्भूतो, नारदोऽथ महामुनिः ।। तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥३॥ ब्रह्मचर्येण ब्राह्मणः (?) न चैते ब्राह्मणीपुत्रा-स्ते लोके ब्राह्मणाः स्मृताः । शीलशौचमयं ब्रह्म, तस्मात् कुलमकारणम् ॥४॥ शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवजितेन ?। एके नरा नीचकुले प्रसूताः, स्वर्गं गताः शीलमुपेत्य धीराः ॥५॥

Page Navigation
1 ... 32 33 34 35 36 37