Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
जून - २०१२
के पुनस्ते ? कठिन-व्यास-वशिष्ठ-ऋषिशृङ्ग-विश्वामित्रप्रभृतयो ब्रह्मऋषयो नीचकुले प्रसूताः च लोकस्य ब्राह्मणाः । तस्मादस्य वचनस्य प्रामाण्यादनियतोऽयं ब्राह्मणप्रसङ्गः । इति शूद्रकुलेऽपि ब्राह्मणो भवति ।
किं चाऽन्यद् भवदीयं मतम् ? । "मुखतो ब्राह्मणा जाताः, बाहुभ्यां क्षत्रियः श्रुतः ।
ऊरुभ्यां वैश्यः सञ्जातः, पद्भ्यां शूद्रस्य सम्भवः ॥"
अत्रोच्यते - ब्राह्मणा बहवः । न ज्ञायन्ते कतरे मुखतो जाता ब्राह्मणाः? इह हि कैवर्तरजकचाण्डालकुलेष्वपि ब्राह्मणाः सन्ति । तेषामपि बोडाकरण-मुञ्जकाण्ठादिभिः संस्काराः क्रियन्ते । तेषामपि ब्रह्मसंज्ञा क्रियते । तस्मादपि ब्राह्मणबहुत्वादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यमिति ।
अपि च एकपुरुषोत्पन्नानां कथं चातुर्वर्ण्यम् ? इह कश्चिद् देवदत्त एकस्याः स्त्रियः चतुरः पुत्रान् जनयति, न च तेषां वर्णभेदोऽस्ति - अयं ब्राह्मणः, अयं क्षत्रियः अयं वैश्यः अयं शूद्र इति । कस्मात् ? एकपितृत्वात् । एवं ब्राह्मणादीनां कथं चातुर्वर्ण्यम् ?
इह हि गोहस्त्यश्वमृगसिंहव्याघ्रादीनां पदविशेषाः दृष्टाः - गोपदमिदं हस्तिपदमिदमश्वपदमिदं मृगपदमिदं सिंहपदमिदम् । न च ब्राह्मणादीनामिदं ब्राह्मणपदमिदं क्षत्रियपदमिदं वैश्यपदमिदं शूद्रपदम् । अतः पदविशेषाभावादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यम् ।
इह गोमहिषाश्वकुञ्जरखरवानरछागएडकादीनां भगलिङ्गसंस्थानमलगन्धध्वनिविशेषो दृष्टो, न तु ब्राह्मणक्षत्रियादीनाम् । अतोऽप्यविशेषादेकवर्ण इति । अपि च यथा हंसपारापतशुककोकिलशिखण्डिप्रभृतीनां रूपवर्णलोमतुण्डविशेषो दृष्टः, न च तथा ब्राह्मणादीनाम् । अतोऽप्येकवर्ण इति । तथा च वटबकुलपलाशाशोकतमालनागकेसरशिरीषचम्पकप्रभृतीनां वृक्षाणां विशेषो दृष्टः, यद्वत् दण्डतश्च पत्रतश्च पुष्पतश्च फलतश्च त्वगस्थिबीजरसगन्धतश्च । न तथा ब्राह्मणक्षत्रियविट्शूद्रानामङ्गप्रत्यङ्गविशेषः । न च त्वगुधिरमांसास्थिशुक्रमलवर्णसंस्थानविशेषो वाऽपि प्रसवविशेषो दृश्यते । अतोऽप्यविशेषादेकवर्णो भवति ।
___ अपि च भो ब्राह्मण! सुखदुःखजीवितबुद्धिव्यापारव्यवहारमरणोत्पत्तिभयमैथुनोपचारसमतया नाऽस्त्येव विशेषो ब्राह्मणादीनाम् ।

Page Navigation
1 ... 33 34 35 36 37