Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________ जून - 2012 71 शूद्रोऽपि शीलसम्पन्नो, गुणवान् द्विज उच्यते / / ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत् // 3 // पञ्चेन्द्रियार्णवं घोरं, यदि शूद्रोऽपि तीर्णवान् / तस्मै दानं प्रदातव्य-मप्रमेयं युधिष्ठिर! // 4 // न जातिर्दृश्यते राजन्!, गुणाः कल्याणकारकाः / जीवितं यस्य नाऽऽत्मार्थं, धर्मार्थं तस्य जीवितम् / अहोरात्रं चरेत् क्षान्ति, तं देवा ब्राह्मणं विदुः // 5 // परित्यज्य गृहावासं, ये स्थिता मोक्षकाक्षिणः / कामेष्वसक्ताः कौन्तेय!, ब्राह्मणास्ते युधिष्ठिर! // 6 // अहिंसा निर्ममत्वं च, आत्मकृत्यस्य वर्जनम् / रागद्वेषनिवृत्तिश्च, एतद् ब्राह्मणलक्षणम् // 7 // गायत्रीमात्रसारोऽपि, वरं विप्रः सुयन्त्रितः / नाऽऽधीत्य चतुरो वेदान्, सर्वाशीः सर्वविक्रयी // 8 // एकरात्रोषितस्याऽपि, या गतिर्ब्रह्मचारिणः / न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर! // 9 // पारगं सर्ववेदानां, सर्वतीर्थाभिषेचकम् / युक्तश्चरति यो धर्म, तं देव ब्राह्मणं विदुः // 10 // यदा न कुरुते पापं, सर्वभूतेषु दारुणम् / कायेन मनसा वाचा, ब्रह्म संपद्यते तदा // 11 // " अस्माभिरुक्तं यदिदं द्विजानां, मोहं निहन्तुं हतबुद्धिकानाम् / गृह्णन्तु सन्तो यदियुक्तमेतत्, मुञ्चन्तु वाऽयुक्तमिदं यदि स्यात् // कृतिरियं बौद्धभिक्षुपण्डितश्रीसिद्धाचार्य-अश्वघोषपादानां वज्रशूचीप्रकरणमिति //

Page Navigation
1 ... 35 36 37