Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
७०
अनुसन्धान-५९
इदं चाऽवगम्यताम् । यथैकवृक्षोत्पन्नानां फलानां नाऽस्ति वर्णभेदः, तथैकपुरुषोत्पन्नानां पुरुषाणां नाऽस्ति भेदः, उदुम्बरपनसफलवत् । उदुम्बरस्य हि पनसस्य च फलानि कानिचित् शाखातो भवन्ति, कानिचिद् दण्डतः, कानिचित् स्कन्धतः, कानिचिद् मूलतः । न च तेषां भेदोऽस्ति । इदं ब्रह्मफलमिदं क्षत्रियफलमिदं वैशफलमिदं शूद्रफलमिति एकपुरुषोत्पन्नत्वाद् नाऽस्ति भेदः ।
एकपुरुषोत्पन्नत्वादन्यच्च दूषणं भवति । यदि मुखतो ब्राह्मणा जाताः, ब्राह्मण्याः कुत उत्पत्तिः ? मुखादेव इति चेत् । हन्त ! तर्हि भवतां भगिनीग्रहप्रसङ्गः स्यात् । तथा अगम्यागमनं संभाव्यते । तच्च लोकविरुद्धम् । तस्मादपनीयते एव ब्राह्मण्यम् ।
क्रियाविशेषेण चातुर्वर्ण्यव्यवस्था क्रियते । तथाच युधिष्ठिराध्युषितेन वैशम्पायनेनाऽभिहितं क्रियाविशेषतः चातुर्वर्ण्यमिति ।
"पाण्डोस्तु विश्रुतः पुत्रः, स वै नाम्ना युधिष्ठिरः । वैशम्पायनमागम्य, प्राञ्जलिः परिपृच्छति ॥१॥ के के नु ब्राह्मणाः प्रोक्ताः ?, किं चाऽब्राह्मणलक्षणम् ? ।
एतदिच्छामि विज्ञातुं, तद् भवान् व्याकरोतु मे ॥२॥" वैशम्पायन उवाच -
"क्षान्त्यादिभिर्गुणैर्युक्त-स्त्यक्तदण्डो निरामिष" इत्यादि । "न कुलेन न जात्या च, क्रियाभिर्ब्राह्मणो न च । चण्डालोऽपि व्रतस्थश्चेद्, ब्राह्मणः स युधिष्ठिर! ॥१॥ अहिंसा ब्रह्मचर्यं च, विशुद्ध्या च प्रतिग्रहः ।
फलेन न समर्थश्चेद्, ब्राह्मणः स युधिष्ठिर! ॥२॥" किं वैशम्पायनेनोक्तं ? -
"एकवर्णमिदं सर्वं, पूर्वमासीद् युधिष्ठिर! । क्रियाकर्मविशेषेण, चातुर्वर्ण्य व्यवस्थितम् ॥१॥ सर्वे वै योनिजा माः, समांसाः सपुरीषिणः । एकेन्द्रियार्थाश्च तथा, तस्मात् शीलगुणैद्विजाः ॥२॥

Page Navigation
1 ... 34 35 36 37