Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 31
________________ जून २०१२ इह भवतां यदिष्टं सर्ववर्णप्रधानं ब्राह्मणवर्ण इति । वयमत्र ब्रूमः । कोऽयं ब्राह्मणो नाम ? किं जीवः ? किं जाति: ? किं शरीरम् ? किं ज्ञानम् ? किमाचारः ? किं कर्म ? किं वेद इति । तत्र तावद् जीवो ब्राह्मणो न भवति । कस्मात् ? वेदप्रामाण्यात् । उक्तं हि वेदे "ॐ सूर्यः पशुरासीत् । सोमः पशुरासीत् । इन्द्रः पशुरासीत् । पशवोः आद्यन्ते देवाः पशवः । श्वपाका अपि ब्राह्मणा भवन्ति ।" अतो वेदप्रामाण्याद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति। भारतप्रामाण्यादपि । उक्तं हि भारते - — श्रुतौ वा "सप्त व्याधा दशाऽरण्ये, मृगाः कालिञ्जरे गिरौ । चक्रवाकाः सरित्तीरे हंसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥" अतो भारतप्रामाण्यात् व्याधमृगहंसचक्रवाकदर्शनसम्भवाद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । न च धर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे — अतो मानवधर्मप्रामाण्याद् जीवः तावद् ब्राह्मणो न भवति । “अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहग्राही, ब्राह्मणो जायते खरः ॥ खरो द्वादशजन्मानि, षष्टिजन्मानि शूकरः । श्वान: सप्ततिजन्मानि, इत्येवं मुनिरब्रवीत् ॥” ६५ जातिरपि ब्राह्मणो न भवति । कस्मात् ? श्रुतिप्रामाण्यात् । उक्तं स्मृतौ — “हस्तिन्यामबलो जात:, उलूक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च, कौशिकः कुशसंस्तरात् ॥ कठिनात् कठिनो जातः, शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्, तित्तिरिस्तित्तिरीसुतः ।। रेणुका जनयेद् रामं, ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं, काश्यपं चैव शूद्रिका ॥ विश्वामित्रं च चाण्डाली, वशिष्ठं चैव उर्वशी । न तेषां ब्राह्मणी माता, लोकाचाराच्च ब्राह्मणाः ॥ "

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37