Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 29
________________ जून - २०१२ न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्ते इति । पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्याऽपि दर्शनात् । दृष्टो ह्याट्टैन्धनसंयोगवशाद् भास्वररूपस्याऽपि वह्नेरभास्वररूपकार्योत्पाद इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपः तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वात्वया त्वनित्य (अनित्यः प्रदीपत्वेन तु नित्य ?) एवेति प्रदीपनित्यत्वव्यवस्थापनम् ॥ व्योम्नो नित्यानित्यत्वव्यवस्थापनम् एवं व्योमाऽपि उत्पाद-व्यय-ध्रौव्यात्मकत्वाद नित्यानित्यमेव । तथाहि - अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणम्, अवकाशदमाकाशमिति वचनात् । यदा चाऽवगाहका जीवपुद्गलाः प्रयोगतो विलसातो वा एकस्माद् नभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति, तदा तस्य व्योम्नः तैरवगाहकैः सममेकस्मिन् प्रदेशे विभाग उत्तरस्मिन् च प्रदेशे संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धौं । तद्भेदे चाऽवश्यं धर्मिणो भेदः । तथा च(चाऽऽ)हुः - "अयमेव हि भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यास: कारणभेदश्चेति ।" ततश्च तदाऽऽकाशं पूर्वसंयोगलक्षणापत्त्या विनष्टमुत्तरसंयोगोत्पादाख्यपरिणामानुभवात् चोत्पन्नमुभयत्राऽऽकाशद्रव्यस्याऽनुगतत्वाच्चोत्पादव्ययोरेकाधिकरणत्वम् । यथा च यदप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यमिति नित्य[त्वल]क्षणमाचक्षते तदपास्तम् । एवंविधस्य कस्यचिद् वस्तुनोऽभावात् । तद्भावाव्ययं नित्यमिति तु सत्यं लक्षणम् । उत्पादविनाशयोः सद्भावेऽपि सद्भावदन्वयिरूपाद्(?) यद् न व्येति तद् नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः । "द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः ।। क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ? ॥" इति वचनात् । लौकिकानामपि 'घटाकाशं, पटाकाश'मिति व्यवहारप्रसिद्धः आकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे पटेनाऽऽक्रान्तं, तदा पटाकाशमिति व्यवहारः । न चाऽयमौपचारिकत्वादप्रमाणमेव । उपचारस्याऽपि

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37