Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
जून - २०१२
विपरीतार्थपरिच्छेद[क]स्य भ्रान्तत्वव्यवस्थापनायाऽनुमानमपि कुर्महे । तथाहि - वडूरुष्णत्वसङ्ग्राहकं सर्वेषामपि ज्ञानं भ्रान्तं, विपरीतार्थपरिच्छेदकत्वात् । यद्यत् विपरीतार्थपरिच्छेदकं तत्तद् भ्रान्तं, यथा शुक्तिकाशकले रजतज्ञानं, विपरीतार्थपरिच्छेदकं तत्, तस्माद् भ्रान्तमिति ।
अथैवं निगद्यते निरवद्यहृद्यगद्यपद्यप्रबन्धुराभिर्वाग्भिर्भवद्भिः । यथा - शुक्तिकाशकले दूरदेशावस्थितत्व-तत्सदृशत्वादिकारणवशाद् रजतबुद्धिर्भवन्ती भ्रान्ता भवति । इह तु शीते वह्नावुष्णत्वोपलब्धिः कुतः संजायते ? इति । नहि तावत् किमपि कारणमुपलभामहे, येन भ्रान्तत्वं स्याद् । एतस्माद् वढेरुष्ण[त्व]संवेदनमभ्रान्तमेव । तदेतदपि वावद्यमानं वसन्तसमयवद् न भवन्मनोरथमल्लिकावल्लिकां पल्लवयति । यतोऽनाद्यविद्यावासनावशात् तुषारकणशीतलेऽपि वह्नौ उष्णत्वबुद्धिर्भवतां बोभवीति । यथा दुःखरूपेष्वपि विषयेषु सुखबुद्धिः । कैश्चिद् मन्त्रदेवतादिसांनिध्ये सकलपदार्थसार्थयाथात्म्यं (अत्र पाठः त्रुटितः प्रतिभाति - सं.) तस्मात् प्रत्यक्षेणैवाऽऽशुशुक्षणे शीतत्वोपलम्भाद् न प्रत्यक्षविरुद्धः पक्षो, नाऽप्यनुमानविरुद्धः ।
अथ प्रचण्डपण्डितप्रकाण्डालिमौलिमण्डनायमा निरूप्यतेऽभिरूपप्रधानैः । यथा - उष्णो वह्निर्दाहकत्वात् । यद्यद् दाहकं तत्तदुष्णम् । यथा मार्तण्डमण्डलम् । दाहकश्चाऽयं तस्मादुष्ण इत्यनुमानेनाऽनुमानविरुद्धोऽयम् । नन्वेतदपि विचारासहमेव । तथाहि - प्रत्यक्षविरुद्धाऽसौ भवदनुमानप्रतिज्ञा, वह्नः शीतत्वस्य प्रत्यक्षलक्षविनिस्थापितत्वात् । अनुमानविरुद्धा वाऽस्मदीयानुमाने[न] । हेतुरप्यनैकान्तिकः, हिमे शीतेऽपि दाहकत्वोपलम्भात् । दृष्टान्तोऽपि साध्यविकलः, तस्याऽपि शीतत्वात् । अनुमानमन्तरेण तस्य शीतत्वं नाऽङ्गीक्रियते तर्हि अनुमानमपि उच्यते । शीतं मार्तण्डमण्डलं, पार्थिवत्वात्, स्फुटिकोपलादिवत् । अथैतद्दोषभीतेर्मार्तण्डमण्डलांशुवत् इति दृष्टान्तान्तरमाश्रीयते । नन्वेवं सति दृष्टान्तान्तरप्रतिपत्तिलक्षणं दूषणं समापद्यते भवताम् । किञ्च किरणान्यपि शीतलान्येव । अत्राऽप्यनुमिमीमहे - शीतलानि मार्तण्डमण्डलांशूनि, पार्थिवसम्भवत्वात्, घटवत् । ततश्च भवतां दृष्टान्तान्तराश्रयणेऽपि न काचिदप्यर्थसिद्धिरभूत् । एवं च सति सोऽयमाभाणकः सत्यः संवृत्तः, यथा - काकोऽपि भक्षितो, अजरामरत्वमपि न सञ्जातमिति । *हेतुरप्यनासिद्धः, सर्वैरपि

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37