Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 25
________________ जून - २०१२ रितेऽपि ज्ञानजनकत्वम् । काचकामलादिविप्लवबलाच्च विवक्षितरूपाभावेऽपि इति । ततो यथाऽनेकरूपप्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसहकारिवशात् प्रतिनियतसन्निहितरूपादिज्ञानजनकत्वं; तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनियतपदार्थप्रतिपादकत्वं यदि स्यात्, तदा का नमक्षितिः(नः क्षतिः?) । शब्दोऽर्थेन सम्बद्धः, प्रतिनियततत्प्रत्ययनिमित्तत्वात्, लोचनवत् । न च लोचनस्याऽप्यर्थेनाऽसम्बन्ध इत्यभिधेयं, योग्यताख्यसम्बन्धस्य तत्रोभाभ्यां प्रतिपन्नत्वात् । न चैवमप्राप्यकारित्वं विरुध्यते, संयोगादेः सन्निकर्षस्याऽनभ्युपगमात् । तथा शाब्दो बोधः सम्बन्धन (सम्बन्धनियतः?), प्रतिनियतबोधत्वात्, दण्डीत्यादिबोधवत् । इत्थं सम्बन्धो योग्यतानामधेयः शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः । उपमानविचारस्याऽप्रामाणिकानां क्षुन्न (?) एवेति किं तत्र तन्निराकरणप्रयासेनेति ॥ इति वागर्थसंस्थापन(म्) ॥ अग्निशीतत्वस्थापनावादः शीतो वह्निर्दाहकत्वात्, यद् दाहकं तत् शीतं, यथा हिमं, तथा दाहकश्च वह्निः, तस्मात् शीतः । अथ सकलप्रज्ञालप्रवालचक्रवालाचतूलैर्वावद्यते वादिशार्दूलैः । यथा - प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा । यतः समस्तैरपि जनैर्वह्लावुष्णत्वमेवोपलभ्यते, न शीतत्वलेशोऽपि । तन्न वाच्यं, यतो हेमन्तसमयवासरमुख्यव्यज्यमानार्दीकृततालवृन्तप्रान्तप्रोच्छलितशीतशीकरासारशिशिरवैश्वानर उष्णत्वोपलब्धिर्भ्रान्ता एव । यथा विरहिणां सकलजननेत्रपात्रैकलेह्यमहसि उष्णत्वप्रतीतिः । __ अथैवमुद्दण्डपुण्डरीकपाण्डुरनिजयशःप्रसरदुग्धमकराकरान्तरपरिस्फुरत्पाण्डित्यादिगुणडिण्डीरपिण्डीकृतब्रह्माण्डभाण्डैर्बम्भण्यते विद्वत्प्रकाण्डैः । यथा - शीतद्युतावुष्णत्वप्रतीतेम॒न्तित्वं भवतु, बहुभिः तच्छीतत्वोपलम्भात् । वह्वस्तूष्णत्वं सर्वैरपि प्रतीयते, न केनाऽपि शीतत्वं, तस्मात् प्रत्यक्षविरुद्धः । इदमपि

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37