Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ ५८ अनुसन्धान-५९ विरोधापत्तेः । नाऽपि नेत्रस्य तादात्म्यादिसम्बन्धाभावे रूपप्रकटनयोग्यतासम्बन्धस्याऽनुपपत्तिः, श्रवणादीन्द्रियवत् तस्याऽपि रूपाप्रकाशकत्वप्रसक्तेः । ___न च वाच्यं योग्यतातः शब्दस्याऽर्थवाचकत्वेऽर्थस्याऽपि शब्दवाचकत्वं किं न भवेदिति । प्रतिनियतशक्तिकत्वाद् पदार्थानाम् । योग्यता हि शब्दार्थयोः प्रति[पादक-प्रति]पाद्यशक्तिर्ज्ञान-ज्ञेययोऑप्य-ज्ञापक(ज्ञापक-ज्ञाप्य)शक्तिवत् । न च ज्ञानज्ञेययोः कार्यकारणभावात् स्वरूपप्रतिनियमो, न पुनर्योग्यता इत्यभिधानीयम् । तयोः कार्यकारणभावसद्भावेऽपि योग्यतात एव स्वरूपप्रतिनियमोपपत्तेः । अन्यथा ज्ञानमेव प्रकाशकं न तु ज्ञेयं, ज्ञेयमेव प्रकाश्यं न पुनर्ज्ञानमिति नियमस्याऽघटनात् । ननु योग्यतावशात् शब्दो यद्यर्थं प्रतिपादयति, तदा भूमिगृहवर्द्धितोत्थितस्याऽपि पुंसः प्रतिपादयतु, विशेषाभावादिति चेत् ? तदप्यनुचितं, सङ्केतसहायस्वयोग्यतामा[हा] त्म्यतः शब्दादर्थस्य प्रतिज्ञानात् । भूमिगृहवर्धितोत्थितं प्रति चाऽस्य स्वयोग्यतासद्भावेऽपि सङ्केतसहायकाभावाद् नाऽर्थप्रतिपादकत्वानुषङ्गः । सङ्केतो हि 'इदमस्य वाचक मित्येवंरूपो वाच्यवाचकयोर्विनियोगः । स यस्याऽस्ति तस्यैव शब्दः स्वार्थं प्रतिपादयति, नाऽपरस्येति ।। ननु सङ्केतः पुरुषेच्छामात्रनिर्मितः, तदिच्छया वस्तुव्यवस्थापनमनुपपन्नमतिप्रसक्तेः । ततोऽर्थोऽपि वाचकः, शब्दोऽपि वाच्यः किं न भवेत् ? पुरुषेच्छाया निरङ्कशत्वात् । तदप्यविचारितमनोहरं, सङ्केतस्य सहयोग्यतानिबन्धनत्वात्, धूमधूमध्वजवत् । यथैव हि धूमपावकयोः स्वाभाविक एवाऽविनाभावसम्बन्धः, तद्व्युत्पत्तये तु सङ्केतः समाश्रीयते ।। ननु शब्दस्य नैसर्गिकी शक्तिः किमेकार्थप्रतिपादने वा अनेकार्थप्रतिपादने वा ? यद्येकार्थप्रतिपादने, तदा सङ्केतकोटिभिरपि ततोऽर्थान्तरप्रतीतिर्न भवति, मदेन(नाऽ)ग्निप्रतीतिवत् । अथाऽनेकार्थप्रतिपादने, तदा समसमयं शब्दादनेकार्थप्रतीतिप्रसक्तेः प्रतिनियतवस्तुनि प्रवृत्तिर्न प्राप्नोतीति । तदपि न निपुणनिरूपितं, शब्दस्याऽनेकार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात् प्रतिनियतार्थप्रतिपादकत्वोपपत्तेः । एकस्याऽपि हि शब्दस्य देशादिभेदेन प्रतिनियतसङ्केतोऽनुभूयते । यथा गूर्जरादौ चौरशब्दस्य तस्करे द्रविडादौ पुनरोदने इति । दृश्यते च सर्वत्र रूपप्रकाशनयोग्यस्याऽपि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते रूपे (वशात् सन्निहिते एव रूपे?) विशिष्टाञ्जनादिवशादन्धकारान्त

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37