Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ ५६ वागर्थसंस्थापनम् अनुदिनमखर्वसर्वा-नवद्यविद्यानदीनदीष्णेभ्यः । नित्यमनु—क्तेभ्यः प्रणमामि महासमुद्रेभ्यः ॥ अनुसन्धान- ५९ इह हि कूपमण्डूकः कोऽपि वावदूकष्टिट्टिभसन्निभप्रतिभः खण्डस्फुडितशब्दविद्याकाव्यादिदर्शनमात्रेण सर्वज्ञंमन्यः फलितललितबदरीवनमात्रप्राप्तिप्राप्तसुरालयसाम्राज्यंमन्यो वन्यशृगालबालकल्पो जल्पाकतां कल्पयति । तथाहि - अहं शलाकापातमात्रेण कालिदासकृतं काव्यं त्रयी (कृतकाव्यत्रयी)मप्यक्षेपेणाऽऽक्षेपपरिहाराभ्यां व्याख्यानयामि । अतः तन्मानमर्दनाय किञ्चिदुपक्रम्यते । काव्यत्रयीं सर्वामन्यां तव प्रसादेनाऽहं मुञ्चामि । रघुकाव्यस्याऽऽद्यं श्लोकमेकं व्याख्यानय । तत्राऽप्युत्तरपादत्रयं मुक्तम् । आद्य एव पादः किञ्चित् पर्यनुयुज्यते । वागर्थाविवसम्पृक्ताविति वागर्थयोः शब्दपदार्थयोः को नाम सम्पर्कः ? सम्पर्को हि नाम सम्बन्धः । स च संयोगो वा स्यात् सम[वायो] वा तादात्म्यं वा तदुत्पत्तिर्वा । तत्र न तावत् शब्दार्थयोः संयोगः सम्भवति । तस्य द्रव्यद्वयवृत्तित्वात्, शब्दस्य च गुणत्वात् । किञ्च शब्दे चेद् वाच्योऽर्थः सम्बध्यते, तदा यत्र शब्दः तत्राऽर्थः । ततः करवालाचलजलानलानिलादिशब्दोच्चारणे तत्र करवालाद्यर्थसम्बन्धे मुखस्य छेदाऽभिघातक्लेददाहोड्डयनादिप्रसङ्गः । अथाऽर्थे शब्दः सम्बध्यते तदा प्रतिदिशं प्रतिप्रदार्थं शब्दसद्भावेन नित्यं कोलाहलः श्रूयेत । नाऽपि समवायः, तस्य द्रव्य - गुणयोः सम्भवेऽपि, शब्दस्याऽम्बरगुणत्वेन वाच्यार्थ-शब्दयोरसम्भवात् । अपि च वाच्योऽर्थो द्रव्यमेव (द्रव्यमेवेति न) । ततो यदा गौः शुक्लश्चलतीत्यादौ सामान्यगुणकर्माणि वाच्यानि । तदा तेषु न शब्दसमवायो, द्रव्ये एव गुणानां समवायात् । नाऽपि तदुत्पत्तिः सम्बन्धः । सा हि शब्दाद् वाऽर्थस्याऽर्थाद् वा शब्दस्येति द्विधा । तत्र यदि शब्दादर्था उत्पद्यन्ते, ततोऽहं राजा भूयासं, दरिद्रोऽहं कोटीश्वरो भूयासं, रोग्यहमारोग्यवान् भूयासमित्याद्याशीर्वादादेव तत्तदर्थप्राप्तिः स्यात् । अथाऽर्थात् शब्दा उत्पद्यन्ते, तदा वक्तृप्रयत्नमन्तरेणाऽपि प्रतिपदार्थं शब्दा: श्रूयेरन् । तथा च पूर्ववत् कोलाहलप्रसङ्गः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37