Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ ५४ अनुसन्धान-५९ विशदनिर्भासेन प्रत्यक्षेण तु साक्षात्क्रियते एव धर्मः । न च तदप्यसिद्धमिति वाच्यम् । अनुमानेन तत्सिद्धः । तथा[हि –] सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् । यद्यत् प्रमेयं तत्तत् कस्यचित् प्रत्यक्षं, यथा मेरुपरमाण्वादिः । तथा प्रमेयश्चाऽयं धर्मः, तस्मात् कस्यचित् प्रत्यक्षः एव(वेति) सर्वज्ञसिद्धौ तत्सिद्धिः स्वतः सिद्धा । “यद्वा माऽस्तु प्रत्यक्षसिद्धो धर्मः । अनुमानात् तत्सिद्धिः केन निवार्यते ? यतः तदतीन्द्रियार्थसार्थसिद्धये त्रिविधं सङ्गीर्यते - पूर्ववत् १ शेषवत् २ सामान्यतो दृष्टं च ३ । कारणात् कार्यवितर्कणं पूर्ववत् । यथा - रोलम्बगवलव्यालतमालमलिन:(न)त्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ कार्यात् कारणवितर्कणं शेषवत् । यथा सरित्प्रवाहदर्शनात् शिखरिशिखरोपरिप्रवर्षणाभ्यूहनं, गतिपूर्वकदेशान्तरप्राप्तिदर्शनाद् दिनकरेऽपि तथाऽभ्यूहनम् । सामान्यतो दृष्टं तदत्राऽपि प्रतिजनप्रसिद्धं तथाविधानुभवसिद्धम् । जगति विवर्तमानं कार्यजातमुज्जृम्भमानमालोक्यते, ततः तदनुरूपकारणमवश्यं तथा (मवश्यन्तया?) विधेयम् । यदुक्तं च - ___ 'नाऽकारणं यतः कार्य, नाऽन्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् ॥' दृश्यते चाऽत्र सकलमहीमण्डला(लमण्डना?)यमानो मानवः [कश्चित्], कश्चित् तदपरः सोदरदरीपूरणमात्रेऽपि कृतात्यन्तप्रयासः पुंस्याशः, प्रज्ञावज्ञातवाचस्पतिमतिप्रपञ्चः कश्चिद् विपश्चित्, तदन्यश्च सरलतरसीरलेखाविधानेऽप्यनभिज्ञः । एवं सुभग-दुर्भग-सरोग-नीरोग-कुलीन(नाऽ)-कुलीनत्वादिवैचित्र्यं विचित्रकारणनिबन्धनम् । तत्र शुभभावाविर्भावनिबन्धनं धर्मः, तद्विरुद्धानामधर्मः । यदामनन्ति सन्तः 'धर्माद् जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसप(म्प)त्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१॥'

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37