Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ ५२ अनुसन्धान-५९ भोधरोदभोधरोदयादि च (यत्प्रभावादम्भोधिरम्भोधराळदेरुदयादि च ?), पम्फुल्यते समग्रा अपि सुरासुरनरेश्वरतीर्थङ्कर श्रीवल्लयः, शोशुष्यन्ते गवदुर्गतिः दुःखयवासकाः (?) । तदीदृशे धर्मकर्मणि प्रवर्तितव्य''मित्यादि । वादिनि सागरेन्दौ वृद्धोऽपि भद्रभाद्रपदीनाम्भोदोपमं वचः प्रपञ्चयन् आचष्ट - "भो भो आचार्यवर्या! भवतोऽवद्भिर्भवद्भिर्यदुक्तं 'धर्मस्य तप्ति(प्ति) कि(किं) न चिन्तयत ?', तदेतद् विचार्यते । सति हि धर्मिणि धर्माः चिन्त्यमानाः परिचिन्वन्ति चारुताम् । न च धर्मलक्षणो धर्मी कश्चिदुपलभ्यते यत्तप्तिचिन्तनं स[ङ्गतिम गति । कथमिति चेत् ? उच्यते, प्रमाणपथातिक्रान्तत्वात् । तदपि कथमिति चेत् ? एते ब्रूमः "प्रमाणं हि पञ्चप्रकारमुररीक्रियते । तद्यथा - प्रत्यक्षश्मनुमानरमुपमानं ३शाब्द४मर्थापत्तिश्च । तत्रापि प्रत्यक्षं पञ्चविधं - स्पर्शन१रसन२घ्राण३चक्षुः४ श्रोत्र५रूपग्राहकभेदात् । न च पञ्चविधेनाऽपि तेनैषः ग्रहीतुं शक्यः । यदेनं न कोऽपि (यन्न सः केनाऽपि) कदाप्युद्दामकामकामिनीकुचकलशवत् परिस्पृश्यते; नाऽपि भक्ष्यभोज्यलेह्यचूष्यपेयादिभेदभिन्नसरसर[स]वतीवद् रारस्यते, नाऽपि चम्पकाशोकपुन्नागनागकेसरसरोजराजिवद् जेघीयते, नाऽपि घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थसार्थवद् दरीदृश्यते, नाऽपि रणद्वेणुवीणामृदुमृदङ्गध्रोङ्कारस्फीतसङ्गीतवत् शोश्रूयते । न च वाच्यं मानसप्रत्यक्षगोचरः स स्यात्, तस्याऽपीन्द्रियानुसारित्वात् । न हि कोऽपि कदापि स्वप्नदशायामप्ये(प्य)त्यन्ताननुभूतषभूत (भूतासद्भूत ?) मनुभवति । अथ योगिप्रत्यक्षगम्योऽयमिति चेत् ? तदर्थक्तयुक्तम् (तदनर्थकमुक्तम् ?), योगिप्रत्यक्षस्यैव दुरुपपादत्वात् । ततस्तदसिद्धं यदसिद्धसाधितमिति । तदलं तद्विचारेण । "नाऽयमनुमानगम्यः । यतः त्रिलिङ्ग(ङ्गा)द् लिङ्गिनि ज्ञानमनुमानम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षेऽसत्त्वं - विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि । यथा - अग्निमानयं सानुमान्, धूमवत्त्वाद्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः । यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति, यथा जलाशये । एवमन्वय-व्यतिरेकाभ्यां निश्चितो यो हेतुः स एव गमकः स्यात्, न यथाकथञ्चित्, तत्पुत्रत्वादीनामपि हेतुत्वापत्तेः । न चाऽत्र युष्मदङ्गीकृते धर्मधर्मिणि प्रतिबन्धुरं हेतुमुत्पश्यामः, येनाऽनुमानादपि तत्सिद्धिः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37