Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ ५० अनुसन्धान-५९ अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादित्यग्रहणाद्युपदेशदायी कश्चित् तस्मात् तत्साक्षात्कारी । न चाऽयमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्याऽस्मदादिष्वप्यविगानेन विद्यमानत्वात् । नाऽप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्याऽसाक्षात्कारित्वतः सर्वथा निवृत्तेः । ततो व्यावृत्तत्वादेव च न विरुद्ध इति । एवम्भूतश्च सर्वज्ञ एव ।। तथाविधोपदेशस्य वृद्धस्य परम्परातः समायातत्वादसिद्धं तत्साक्षात्कारित्वमिति चेद् ? न, तेषां रागादिमत्त्वेन तथाविधोपदेशदानाभावात् । अत एव क्वचिदन्यथाप्ररूपणात् । यतो दश्यन्ते एव क्वचित् परप्रतारणप्रवणाः पुमांसोऽन्यथा विचिन्त्याऽन्यथा शब्दप्रयोगं कुर्वाणाः । यथा - "नद्याः तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः ।" इत्यादिवाक्यवत् ।। तथाऽप्यत्यन्तरागादिविश्लेषः तस्याऽयुक्तः पुरुषत्वादिति चेद् ? न, अत्यन्तोच्छेदसद्भावस्य प्रमाणोपपत्तेः । तथाहि - रागादयः क्वचिदत्यन्तमुच्छिद्यन्ते, उत्कर्षापकर्षवत्त्वात्, प्रदीपज्वालादिवत् । यथा वातादिना प्रदीपादेरत्यन्तोच्छेदो भवति, एवं क्वचित् पुंसि विपक्षभावनातो रागादीनां निर्मूलमुच्छेदो भविष्यति । यदि च तथाविधः पुरुषो नाऽङ्गीक्रियेत, तदा रागादिमतां वेदार्थस्य विज्ञातुमशक्यत्वात्, वेदस्य च स्वत एव स्वकीयार्थापरिज्ञानाद् न वेदार्थयाथात्म्यनिश्चयः स्यात् । ततश्चाऽग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादेर्वाक्यस्य श्वमुखं भक्षयेत् स्वर्गकाम इत्यादिरप्यर्थः कस्माद् न भवति नियामकाभावात् ? भावे च नियतं पौरुषेयत्वसिद्धिः । वेदवाक्यस्य स्वत एव प्रामाण्याद् न पौरुषेयत्वमिति चेद् ? न, पदवाक्यरचनाविशिष्टस्याऽपौरुषेयत्वासिद्धेः । तथाहि – यद्यत् पदवाक्यरचनाविशिष्टं तत्तत् पौरुषेयं, यथा वाल्मीकादिशास्त्रम् । तथाभूतं चैतत् तस्मात् पौरुषेयमिति । तदेवं प्रमाणपञ्चकाभावस्याऽभावसाधकत्वानुपपत्तेः - "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । स्वसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥" इति शब्दगुणनमात्रं विवक्षितार्थरहितत्वादनवद्यम् । न च प्रमाणपञ्चकाभावो लोकेष्वत्यन्ताभावं साधयति समुद्रोदकसिकतादिपरिसङ्ख्यानेन व्यभिचारात् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37