Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ ४८ अनुसन्धान-५९ दृष्टान्तोपन्यासापत्तिः स्यात् । तत्राऽप्ययमेव वृत्तान्त इत्यपर्यन्ताऽनवस्था स्यात् । अथ स्वत एव खरविषाणस्याऽभावसिद्धिः, तर्हि तद्वत् सर्वज्ञस्याऽपि सा भविष्यति इति किमनर्थमूलेन दृष्टान्तोपन्यासेनेति । तदेवं प्रत्यवयवं विचार्यमाणं साधनं जीर्णकुटीरकमिव विशीर्यते इत्युपेक्षा मर्हति । किञ्च किं भवत एव तद्ग्राहकप्रमाणाभावः ? किंवा सर्वेषां प्रमातॄणामिति विकल्पद्वयं भीमार्जुनद्वयमिव प्रतिपक्षविक्षोभदक्षमुपतिष्ठते । यदि भवतः, सिद्धं साध्यते, भवतो महामोहान्ध्याभिभूतत्वाद्, यद्वचनाच्च तदपनोदो भवति, तस्य च भगवतः सर्वज्ञस्याऽनभ्युपगमात् । अथ सर्वेषाम् । तदसिद्धम् । तस्य ह्येतद् वक्तुं युज्यते, यस्य भुवनोदरान्तर्वर्तिप्राणिपरिषच्चेतोवृत्तिः प्रत्यक्षा भवति । न भवतः, तत्प्रत्यक्षीकरणे च तवैव सर्वज्ञताप्राप्तेरिति सिद्धं नः समीहितम् । य एव राधावेधं विधत्ते स एवाऽर्जुन इति न्यायात् । अथाऽनुमानान्तरं संगीर्यते । यो यः पुरुषः, स स सर्वज्ञो न भवति, पुरुषत्वादस्मदादिवत् । इत्येतदपि महानदीस्रोतोऽन्तः प्रवहतः कुशकाशावलम्बनप्रायम् । पुरुषत्वस्यैकान्तेनाऽस्मदादिसादृश्यसाधकत्वानुपपत्ते: । तथाहि - पुरुष - त्वाविशेषेऽपि मूर्खविपश्चिदादिभेदा: संलक्ष्यन्ते, तद्वत् कश्चित् सर्वज्ञोऽपि भविष्यति इति । अथ विकल्पाभ्यां प्रत्यवतिष्ठेथाः । स सर्वं जानन् किमिन्द्रियद्वारेण जानाति, तदन्तरेण वा ? आद्यपक्षेऽक्षाणां सन्निहितार्थग्राहित्वात् मन्दरमकराकरादीनां च व्यवहितत्वात् तदज्ञाने सर्वज्ञत्वहानिरदृष्टमुद्गराघातकल्पा स्यात् । द्वितीये चाऽन्धबधिरादीनामपि सर्वज्ञत्वप्राप्तिरिति । एतदपि अनभ्युपगमवज्रप्रपातदलितमस्तकतया नोत्थातुमुत्सहते, तस्याऽतीन्द्रियज्ञानाभ्युपगमात् । अथ यो यः पुरुषः तस्य तस्याऽतीन्द्रियं ज्ञानं नाऽस्ति पुरुषत्वादस्मदादेरिवेति चेत् ? तर्हि तावकीनाऽनुमानेन किमिदानीं तदभावः साध्यते किं वा कालत्रयेऽपीति दन्तिदन्तद्वयमिवाऽमलं विकल्पद्वितयमापतति । यद्यधुना, सिद्धं साध्यते । कालत्रये चाऽसिद्धं, कालत्रयस्याऽप्रत्यक्षत्वात् कस्मिंश्चित् काले तथाभूत I

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37