Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
४६
अनुसन्धान-५९
सर्वज्ञसिद्धिः इह केचिदज्ञानमहामहीधरभराक्रान्तचेतसः सकलविमलकेवलबलविलोकिताशेषविशेषपदार्थसार्थस्य भगवतः सर्वज्ञस्य निराकरणार्थमित्थं प्रमाणपञ्चकाभावमुद्भावयन्ति । नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवत् । तथाहि - न तावत् प्रत्यक्षं प्रमाणं सर्वज्ञसाधनायोत्सहते, तस्याऽतीन्द्रियत्वात्, प्रत्यक्षस्य चेन्द्रियविषयत्वात् । यत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमिति वचनात् । नाऽप्यनुमानम् । तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवर्तते । यथा महानसादावग्निधूमयोरध्यक्षेणाऽयं धूमोऽग्नि विना न भवतीत्यविनाभावं निश्चित्य पर्वतनितम्बादौ गगनतलावलम्बिनी बहलधूमलेखां विलोक्य तत्कारणभूतस्याऽग्नेः प्रतिपत्तिर्भवति । नैवं सर्वज्ञत्वाविनाभूतं किञ्चिल्लिङ्गमुपलभामहे, येन तत्कल्पना साध्वी स्यात् । नाऽप्युपमानं तत्साधनाय कक्षां बध्नाति । उपमानोपमेयसद्भावे तस्य प्रवर्तनात् । यथा नगरायातेन केनचित् कश्चिद् ग्रामवासी पृष्टः - कीदृशो गवय इति । स च प्रयुङ्क्ते - यथा गौः खुरककुद्विषाणसास्नालाङ्गलाद्यवयवसम्पन्नः तथा गवयोऽपीति वचनाकर्णनाहितसंस्कारस्य पश्चात् क्वचिदटव्यां पर्यटतो गवयदर्शनात् तस्य विमर्शः प्रवर्तते - यथा गौरुक्तलक्षणः तथाऽयमपि, तस्माद् गवय इति स प्रतिपद्यते । न चाऽमुकवत् सर्वज्ञ इति कल्पना युक्ता, तथाविधस्य कस्यचिदभावात् । नाऽपि शाब्दं प्रमाणं तदस्तित्वं साधयति । ततोऽपि तस्याऽप्रतिपत्तेः । तथाहि - यथा कश्चिद् दाहपाकाद्यर्थी कञ्चिदविप्रतारकं पुरुषविशेषमप्राक्षीत् - क्वाऽग्निरस्तीति । स चाऽभिधत्ते - अस्मात् कूटात् परत्र प्रविभागे वह्निः तिष्ठतीति तद्वचनानन्तरं प्रवृत्तस्य जाज्वल्यमानज्वालाकलापाकुले दाहपाकाद्यर्थक्रियाक्षमे हुतभुजि प्रतीतिर्भवति । नैवं सर्वज्ञशब्दादाप्तप्रयुक्तादपि सर्वज्ञप्रतिपत्तिर्भवति, तथातददर्शनात् । नाऽप्यर्थापत्तिरत्र गमिका । सा हि कार्यनिष्पत्त्यन्यथानुपपत्त्या व्यवस्थाप्यते । यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते पीनत्वस्याऽन्यथाऽनुपपत्तेनिशि भुङ्क्ते इति गम्यते । न च सर्वज्ञसद्भावमन्तरेण कश्चिदर्थोऽन्यथा नोपपद्यते इति येन तद्भावः कल्प्येत । तस्मात् प्रमाणपञ्चकाभावादभाव एवाऽत्र प्रवर्तते इति । उक्तं च -
"प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥” इति ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37