Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
जून २०१२
एवं न च तथाविधोपदेशस्य वृद्धपरम्परायातत्वादसिद्धं तत्साक्षात्कारित्वम् । तेषां रागादिमत्त्वेन तथाविधोपदेशदानाभावात् ।
न चाऽनेन युक्तिकलापेन शिशिरकरशेखरसुगतकपिलानामपि सर्वज्ञतापत्तिः, कथम् ऋषभवर्धमानादेः प्रतिनियतस्यैव सर्वज्ञत्वं भवतीति वाच्यम् । तदुक्ततत्त्वानां प्रमाणोपपत्तिभिर्बाध्यमानत्वात् । तथाहि - सदाशिवोऽभ्युपगम्यते नैयायिकैर्वैशेषिकैश्च महेश्वरः । तस्य च तत्त्वप्रणीतिरेव न घटते विमुखत्वात् । वैमुख्यं शरीररहितत्वात् । शरीररहितत्वं च [ धर्माधर्मविकलत्वात्]। धर्माधर्मविकलत्वं च संसारिजीवविलक्षणत्वात् । तदुक्तं -
“विमुखास्या(स्यो)पदेष्ट(ष्टृ ) त्वं श्राद्धगम्यं परं यदि । वैमुख्यं वितनुत्वेन, तत्त्व (त्त्वं) धर्माद्यभावतः ॥”
४५
किञ्च, महेशेन षट् तत्त्वानि निरूपितानि । तत्र नव द्रव्याणि पृथिव्यादीनि मनोऽन्तानि प्रतिपादितानि । तत्सङ्ख्या च व्यभिचरति, तमश्छायादेरपि द्रव्यत्वेन घटमानत्वात् । तदुक्तं -
“तमः खलु चलं नीलं, परापरविभागवत् । इतरद्रव्यवैधर्म्याद्, नवभ्यो भेत्तुमर्हति ॥ "
44
'आतपः कटुको रूक्षश्छाया मधुरशीतला ||" इत्यादिवचनाद् । दिक् पुरुषविवक्षिताकाशप्रदेशव्यतिरेकेण न काचिदुपलभ्यते न घटते वा विचार्यमाणा। अत: तस्या अपि न सत्त्वम् । मनोऽप्यणुपरिमाणं नित्यद्रव्यरूपं न किञ्चिद् घटते । अतो व्यभिचार्यभिधायकत्वात् कथं तस्य सर्वज्ञत्वम् ? तन्मार्गानुसारि कणादादिमुनिप्रणीतशास्त्राणामपि न तत्त्वाभिधायकत्वम् । तदभावाच्च न शास्त्रत्वमिति । तथा सुगतस्याऽपि (सुगतकपिलादेरपि ?) इहलोकपरलोकआगोपालाङ्गनाप्रतीतव्यवहारबाधितैकान्ता(न्त) क्षणिकप्रकृतिविकार-सामान्यसत्कार्याविर्भावतिरोभावादिरूपपदार्थप्रतिपादकस्य कथं सर्वज्ञत्वं जाघटीति ? ततश्च सामर्थ्याद् ऋषभवर्धमानादय एव सर्वज्ञाः, युक्तिप्रमाणोपपत्तिव्यवहारघटमानकयथावस्थितार्थाभिधायकत्वात् ॥
इति श्रीसर्वज्ञव्यवस्थापनावादः ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37