Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ जून - २०१२ ४९ स्याऽपि सम्भवात् । अथ यो यः कालः, स सोऽतीन्द्रियज्ञानवत्शून्यः, कालत्वात्, इदानीन्तनकालवदित्यनुमानेन प्रत्यवस्थानं कुर्वीथाः; तहि यो यः कालः, स स त्वत्पितामहादिशून्यः, कालत्वात्, इदानीन्तनकालवदिति नाऽस्माकमपि शठोत्तरमतिदुर्लभं स्यादित्यनिष्टप्राप्तिः । अभ्युपगमे च भवतो निर्हेतुकं जन्म स्यात् । अथैवं पर्यनुयुञ्जीथाः । किमेते भावा इन्द्रियज्ञानग्राह्यस्वभावा उताऽतीन्द्रियज्ञानग्राह्यस्वभावाः ? आये पक्षे प्रतिज्ञाक्षतिर्भवद्विवक्षितस्याऽसर्वज्ञत्वप्राप्तिः, तस्याऽतीन्द्रियार्थज्ञातृत्वेनाऽभ्युपगमात् । द्वितीये च प्रतीतिबाधा, अक्षज्ञानेन तेषां विद्यमानत्वात् । एतदप्यतिभृतजलकुम्भस्योदकबिन्दुरिव बहिः प्लवते । तेषामनेकस्वभावत्वं चेन्द्रियार्थज्ञानेनाऽपि भेदेन ग्रहणदर्शनात् । यदि पुनः सर्वथैकस्वभावा भावा भवेयुः, तदेन्द्रियज्ञानेनाऽपि ग्रहणभेदो न स्यात् । स च दृश्यते । यथैकस्मिन्नेव वस्तुनि मन्दचक्षुषा संस्थानमात्रस्य, विमललोचनेन तु तदभ्यधिकस्य रक्तत्वादेः प्रतिपत्तिरिति । अतीन्द्रियज्ञानसद्भावश्चाऽविसंवादिज्योतिःशास्त्रादिप्रणयनान्यथानुपपत्त्या निश्चीयते । तदन्तरेण तथाविधस्य तस्याऽनुपपत्तेरिति । किञ्च सर्वज्ञाभावोऽपि कथं प्रमाणपञ्चकेन गृह्यते इति चिन्त्यम् । प्रत्यक्षस्य सदिन्द्रियविषयत्वेनाऽभावग्रहणाभावात् । भावे वाऽभावप्रमाणवैयर्थ्य, तेनैव तद्विषयस्य परिच्छिन्नत्वात् । अनुमानस्याऽपि लिङ्गलिङ्गिग्रहणसम्बन्धस्मरणोत्तरकालं प्रवृत्तेरभावस्य तुच्छत्वेन तावतोऽभावात् । भावे वाऽभावत्वविरोधात् । उपमानस्याऽप्युभयसद्भावे भावात् । सर्वज्ञस्य चाऽभावरूपेणाऽभ्युपगतत्वात् । भावाभावयोश्चोपमानोपमेयभावाभावात् । भावस्वरूपत्वे च विद्यमानत्वेनैव ग्रहणात् 'खरविषाणवत् सर्वज्ञः, सर्वज्ञवद् वा खरविषाण'मित्युपमानोपन्यासः प्रलापमात्रफल एव स्यात् । शाब्दस्याऽपि विधिसाधनत्वेनैव प्रमाणत्वाभ्युपगमात् । यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादेः । न च सर्वज्ञाभावमन्तरेण कश्चिदर्थोऽन्यथाऽनुपपद्यमान उपलभ्यते, येन तत्कल्पना साध्वी स्यादित्यर्थापत्तेपि न तदभावसाधकत्वमिति । अत एव साधकबाधकप्रमाणाभावात् संशयोऽस्त्विति चेद् ? न, साधकप्रमाणस्य विद्यमानत्वात् । तथाहि - अस्ति कश्चिदतीन्द्रियार्थसाक्षात्कारी, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादित्यग्रहणाद्युपदेशदातृत्वाद् । यो यो यद्विषयेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता स स तत्साक्षात्कारी दृष्टो, यथाऽस्मदादिः स्वयमनुभूतेऽर्थेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता तत्साक्षात्कारी ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37