Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
६०
अनुसन्धान-५९
विचार्यमाणं न स्थेमानमाप्नोति । यतो निर्दोषाणां कुशीचाटन-फालग्रहणादि दिव्यं कुर्वतामनुस्मृतमन्त्राणां च हुताशने शीतत्वप्रतीतिः समस्त्येव ।
अथैवं निबिडजडिमवननिकुञ्जोज्जासनकुञ्जरैः प्रजल्प(ल्प्य)ते वादिकुञ्जरैः । यथा कुशीचाटन-फालग्रहणादि दिव्यं कुर्वता(तां) देवतानुभावात् कृशानोः शीतत्वोपलम्भः सम्भवति । न पुनः स्वयं शीतः स्यात् । तत् कथं दोषवतां जिह्वास्फोटकदंष्ट्रिकादाहादीन्युपलभ्येरन् ? तस्मादुष्ण एव । तदप्यमात्रमेव(?)। यतो यद् दोषवतां दिव्यं कुर्वतां स्फोटकादिकमुपलभ्यते तद् अपुण्यानुमानेन तदीयदोषाविःकरणाय देवतादिवशात् सञ्जायते, न पुनर्वह्नरौष्ण्यात् ।
अथाऽनवद्यविद्याभिधमधुव्रतश्रेणिसंप्रीणनप्रफुल्लमल्लिकाभिः समुल्लप्यते विद्वन्मतल्लिकाभिः । यथा - क्रियतां नाम दोषवतां देवादिभिः स्फोटनादिकं तदीयदोषाविःकरणाय । परं यदि स्वाभाविकं वह्वरुष्णत्वं नाऽस्ति तत्र सर्वेषामपि जनानां वह्निसंसर्गेण स्फोटकादिकमुत्पद्यमानं दरीदृश्यते इत्यस्मात् स्वभावेनाऽप्युष्ण एवाऽऽश्रयितव्यः । तदेतदपि वावद्यमानं न विदुषामानन्दसम्पदं सम्पादयति । यतो नोष्णत्वं स्फोटकोत्पत्तिकारणं, भल्लातकराजिकादिसम्पर्केऽपि स्फोटकोत्पत्त्युपलम्भात् । न च तेषामुष्णत्वमस्ति । तन्न स्फोटकोत्पादकत्वेन वह्वरुष्णत्वं कल्पनीयमिति ।
___ अथ एवं सार्वभौमयशसः प्रजल्पन्ति सुमनसः - धत्तूरकभावितानां बहूनामपि लोष्टादिषु सुवर्णज्ञानं भ्रान्तं भवितुमर्हति । श्रूयते च सर्वेषु शास्त्रेषु लोकेषु च "शतमप्यन्धानां न पश्यति" । किं च यदि बहूनामुपलम्भः प्रमाणं, तहि ज्ञानमयामूर्तत्वादिलक्षणं यथावस्थितमात्मनः स्वरूपं योगिपरिज्ञातमप्रमाणं भवति । तस्मात् स्वल्पानामपि यत् ज्ञानं सम्यक् भवति तदेव प्रमाणम् । ततश्च भवदादीनां शीतेऽपि वह्नौ उष्णत्वसंवेदनं भ्रान्तमेव ।
___अथैवं प्रकटविकटकोपाटोपप्रकम्पमानतनूकैः प्रतिपाद्यते वावदूकैः । यथा - अस्मदादीनां वह्वरुष्णत्वसङ्ग्राहकं ज्ञानं भ्रान्तमिति कथं निश्चीयते ? न हि सर्वज्ञमन्तरेणाऽन्यस्यैवंविधा शक्तिरस्ति । तदेतदपि प्रवणान्तर्वाणितां प्रकटयति । यतो यथा टेकत्र महानसादौ धूम-धूमध्वजयोरविनाभावग्रहणे सति सर्वत्राऽयमसर्वज्ञस्याऽपि निश्चयो भवति, यथा - यत्र धूमस्तत्र वह्निर्भवत्येवेति । तथाऽत्राऽप्येक(?)ज्ञानस्य विपरीतार्थग्राहकस्य भ्रान्तत्वं निश्चीयते एव । तथा

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37