Book Title: Ketlak Darshanik Prakarano
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ ४० अनुसन्धान- ५९ मातुर्विवाहोऽपि नोपलब्ध:, तथा पितामहादयोऽपि न ददृशिरे, तस्माद् नाऽऽसीरन्निति व्यवहर्तव्या: । अथ सर्वैरपि न दृश्यते, न पुरा वर्तमानः तीर्थनाथः, तर्हि एवंविधसंवेदनप्रभुर्भवानेव सर्ववित् । इति फलितं ममाऽपि मनोरथद्रुमैः । अथवा अन्यत् सुधिया निवेद्यते । यथा पर्वतोदरनिलीना दूर्वाप्रवाला विलसन्तः सन्ति अनुपलभ्यमाना अपि । तथा देवोऽपि तीर्थेश्वरो दूरदेशे निलीनोऽपि महाविदेहे सम्भाव्यते । तस्मात् तृतीयहेतुदोषोऽयं भवदीयानुमानेन । अतः “असिद्धं सिद्धसेनस्य, विरुद्धो मल्लवादिनः । द्वेधा समन्तभद्रस्य, हेतुरद्वयसाधने ॥" इत्याद्यपि भावनीयम् । हेतौ निरस्ते व्याप्त्यादीनि भवदीयानि निरस्तानि । सद्यः समर्थितः सर्वभाववित् भवतां पुरः । तस्मात् स्पर्शनादिभिरनुपलभ्यमानत्वादिति हेतु: असिद्धोऽपि अद्वयसमर्थयिता । तथा रवेः शशिनो वा राहुद्वयं नभसि वर्तमानं सर्ववादविदमन्तरा नाऽवसीयते । शुभाशुभस्वरूपं हि तारासमूहबाधादिस्वरूपं न मनसा बुध्यते । औषधवैद्यकशास्त्रप्रभावो न वेद्यते तं विना । तस्माद् नभसि श्यामताभ्रम इव भित्तिरूपद्विरदसरोवरशैलादिष्विव निम्नानिम्नत्वभ्रमः सर्ववेत्तु-निषेधोऽपि मीमांसाबुद्धानां भ्रमायते ॥ कादिवर्गत्रयपरिहारेण दृब्धा सर्वज्ञसिद्धिः श्रीविमलसूरिशिष्यैः श्रीअजितसिंहसूरिभिः ॥ सर्वज्ञाभावनिराकरणम् इह केचिदहङ्कारशिखरिशिखामध्यमध्यारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीतिबिरुदमात्मनः पाठयन्तः स्वगल्लझल्लरीझत्कारेणाऽविद्यानटीं नाटयन्तः सकलतार्किकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः अतुच्छमात्सर्याद्यनणुगुणमत्कुणतुल्यकल्पाः सङ्कल्पितानल्पविकल्पाः मुग्धजनमनः सदनागतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टाकाः प्रजल्पन्ति जल्पाकाः किं सर्वज्ञः प्रत्यक्षेण साक्षात्क्रियते

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37