Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
काव्यमाला ।
अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य ।
जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८॥ श्रुतमेव सौधं गृहं तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः ॥
अनवमनवमरससुधाहदिनी पत्रिंशदुत्तराध्ययिनीम् ।
अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥९॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य ह्रदिनी नदी षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवर्तिभिर्नारदादिभिः प्रणीतानध्ययनविशेषान् ॥
उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु ।
महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १०॥ आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचार नामाद्य मामहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चैस्तराः शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृताः पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाश्चूडासंज्ञाः । पुनः किविविष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगमिनीविद्या तस्य । तत एवोद्धृत्य श्रीवज्रखामिना प्रभावना कृता ॥
त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्रिविभेदहादिनीम् ।
द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्गं शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशिष्टम् । त्रिषष्ट्यधिकशतत्रयीमिता । ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्रिविमेदे हादिनी वज्रसमम् ॥
स्थानाङ्गायदशस्थानस्थापिताखिलवस्तुने ।
नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थानान्यधिकारविशेषाः तथाहि-तनुइन्दा.................कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि । 'विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाङ्गायेति संप्रदानम् ॥
तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् ।
संस्तुमः समवाया समवायैः स्तुतं सताम् ।। १३ ।। तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपणं कथनं तत्र परायणं तत्परं सतां समवायैः समूहैः समवायाझं वयं स्तुमः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166