Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
चतुर्विंशतिजिनस्तुतिः। पदमुपरि दधाना वारिजानां व्यहार्षी
त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिर्यो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किंभूतायाः । सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहारं कृतवती । किंभूता । नवानां नवसंख्यानां नूतनानां वारिजानां वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा खयमवाप्तबोधित्वात्परेषां बोधिधर्मप्राप्तिस्तत्र कामो यस्याः सा ॥
दिशदुपशमसौख्यं संयतानां सदैवो
रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे
ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ हे जनाः, जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्घ्यशोभि अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥
दधति रविसपलं रत्नमाभास्तभाव
नवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा
नव घनतरवारिं वारणारावरीणाम् ॥ २८ ।। हे महामानसि देवि, इष्टानभिमतानरादीन् अव रक्ष । हे गतवति प्रापुषि। कस्मिन्वारणारौ सिंहे। हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्या अस्तो भावान्सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् । वा समुच्चये । सिंहे किं कुर्वति । अरीणां वैरिणामाली श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खङ्गं किंभूतम् । घनतरवारिं सान्द्रतरपानीयम् । रत्नविशेषणं वा ॥
तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां ____ हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतू.
हानेकान्तानलसमदया वन्दितायासमान ॥ २९ ॥ हे चन्द्रप्रभ जिन, हे दयावन्, तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जितानां हाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fd8de3f502481559576ea86ede385d5ec3ddfe1e82f1348703cfdec82dc1a109.jpg)
Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166