Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 156
________________ चतुर्विंशतिजिनस्तुतिः । १५१ हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसद्भ्यामसिफलकाभ्यां खङ्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभीमोsरौद्रो हासो हसनं यस्याः । अरिभ्यो भीर्भयं तस्या इतिभूते । अभीर्निर्भया या महारिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ॥ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दित भूरिभक्तिभा क्संनदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यचक्रवर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत् तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मीं किंभूताम् । अनेकपा गजास्तै राजितां शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्वस्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणां मानसं चित्तं येन तथा सारं श्रेष्ठम् । दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मीं कथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । तं जिनराज विसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमदारुणकरमपापदम् ॥ ७० ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूहं स्तौति । समन्ततः सर्वतः स्मेत्यतीतार्थकम् । समवसरणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला मधुरा । तं जिनेन्द्र विसरमहं नमामि । किंविशिष्टम् । अरुणावारक्तौ करौ हस्तौ यस्य । अपगता आपदो यस्मात्तम् । विनाशितजन्मजरम् । अपकलितापमपगत कलह संतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ भीममहाभवाब्धिभवभीतिविभेदि परास्त विस्फुरत्परमतमोहमानमत नूनमलं घनमघवतेऽहितम् । जिन पतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं परमतमोहमानमतनूनमलङ्घनमघवतेहितम् ॥ ७१ ॥ भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिप्ता विस्फुरन्तः परम्तमोहमाना येन । यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः । परमतानां मोहमानौ वा । तनु तुच्छमूनमंपूर्ण च न अलमत्यर्थ घनं निबिडं प्रमेयगाढम् । अघवते पापिने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166