Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 158
________________ चतुर्विशतिजिनस्तुतिः। १५३ यः कंदर्पस्तपःशमौ अहन् जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते च योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां पमश्रिया प्रभाति मे चकितहरिद्विपं नगे। वटाहये कृतवसतिश्च यक्षराद प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ।। यक्षराट् कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशमलक्ष्म्या प्रभाति प्रकर्षेण शोभमाने । यक्षराद किंविशिष्टः । चकितन्त्रस्तो हरिद्विप ऐरावणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नये विगतसर्प नगे वृक्षे-वटाभिधाने कृता वसतिरालयो येन । प्रभया कान्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः ॥ जिनमुनिसुव्रतः समवताज्जनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः- .. समुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमुनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जनतया जनसमूहेनावनतः । समुदिताः सहर्षा ये मानवा मनुष्या अवनिविकीर्ण भूमौ राशीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सतः । दीक्षा ग्रहीतुकामस्ये. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा सनःसमुदिता हृदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः कर्म च येन ॥ प्रणमत तं जिनव्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ।। ७८ ॥ प्रणमत नमत तं जिनबजमर्हत्संदोहम् । कथंभूतम् । भयासं भयक्षयकारकम् । सुरे. न्द्रवरयोषिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिम्नो धाम गृहम् । जिनवजविशेषणमेतत् । हिमधामा चन्द्रस्तस्य भया कान्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघटनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा ॥ त्वमवनताञ्जिनोत्तमकृतान्त भवाद्विदुषो ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं खभिदधत्सुधियां चरणं - वसदनु मानसं गमनयातत मोदयितः ॥ ७९ ॥ हे जिनोत्तमसमय, त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्संसारात् । सत् शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । वं Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166