Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 148
________________ चतुर्विंशतिजिनस्तुतिः । १४३ नसं च नाहृत नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसशाङ्गी । तारा मनोहरा । वा समुच्चये ॥ जिनवरततिर्जी वाली नामकारणवत्सला समदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्कया नूता तनोतु मतिं ममासमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिर्मम मतिं ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वी वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृतभुजो देवास्तेषां पतया नूता स्तुता । मतिं किंभूताम् । असम दैर्निरहंकारैर्महितां पूजिताम् । आरात् शीघ्रमिष्टा पूजिता । अभिमता वा । देवपतया किंभूतया । सह मानवराजैर्नरेन्द्रैर्वर्तते या तया ॥ भवजलनिधिभ्राम्यज्जन्तुत्रजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामर्हन्नाथागमानतभूपतिं तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ४३ ॥ हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपदं मानववृद्धिं समभिषतां वाञ्छतां सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि । इति संटङ्कः । नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किंविशिष्टानाम् । सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली मर्त्याधिपं कजराजिभिः ॥ ४४ ॥ महाकाली देवी प्रजयति प्रकर्षेण वैस्जियेन सर्वोत्कृष्ट वर्तते । करैर्हस्तैरुपलक्षिता । किंभूतैः । धृता वञ्ज्र -फल- जपमाला घण्टा यैस्ते तथा । देवी किंभूता । बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयच साधवः । ततः कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा । तथा कालीं श्यामां दधती धारयन्ती । काम् । स्ववपुलताम् । किंभूताम् । अपरिक्षतामदूषिताम् । कैः । अर्तिः पीडा, आधिर्मानसी व्यथा, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166