Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
प्रश्नोत्तररत्नमाला । प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छरधिपृथ्वि कुन्थवः । क्षुद्रजीवबहुलामतः परं सूचयन्त इव भाविनी महीम् ॥ १६ ॥ यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम् । एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः ॥ १७ ॥ यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत् । प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः ॥ १८ ॥ यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः । . तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रबलापि ॥ १९ ॥
इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः ।
श्रीविमलप्रणीता
प्रश्नोत्तररत्नमाला। प्रणिपत्य वर्धमानं प्रश्नोत्तरत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् ॥ १ ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ २ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ ३ ॥ त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । किं मोक्षतरोबर्बीजं सम्यग्ज्ञानं क्रियासहितम् ॥ ४ ॥ किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ ५ ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।
मनुजेषु दृष्टंतत्त्वं स्वपरहितायोद्यतं जन्म ॥ ६ ॥ १. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्माभिरासादितम्. तत्र प्रथममेकपत्रात्मक शुद्धं संवेगिसाधुश्रीशान्तिविजयमुनिभिर्दत्तं क-संज्ञकम्. द्वितीयं पत्रद्वयात्मकं शुद्ध भगवान्दासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-संज्ञकं ज्ञेयम्. २. 'जिनवरेन्द्र' क. ३. 'पद्धति' ख. ४. 'सत्वं' क.
११ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166