Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 127
________________ १२२ काव्यमाला | मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववल्ली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रांगी । कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ८ ॥ पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ १० ॥ किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ ११ ॥ नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः । के शशधरकर निकरानुकारिणः सज्जना एव ॥ १२ ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ॥ १३ ॥ किं दानमनाकाङ्कं किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री | सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥ कोsन्धो यो कार्यरतः को बधिरो यः शृगोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥ किं मरणं मूर्खत्वं किं चानर्थं यदवसरे दत्तम् । आ मरणाकि शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥ कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरयोषित्परधनेषु ॥ १८ ॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा । का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166