Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 138
________________ चतुर्विंशतिजिनस्तुतिः । १३३ येन तस्य संबोधनम् । तथा सह आमै रोगैवर्तते सामः । न तथा असामोरोगस्तस्य संबोधनम् । जनानभिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्तजात्यतपनीयसमवर्णखाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलवाणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः । 'दाराः प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः । सुमनसः पुष्पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दा. यमाना भ्रमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाछितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिर्नयैरक्षोभं परवादिमिरजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीनां जालं समूहो यत्र तत् । तथा माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भजनैर्भङ्गकारिमिहेंतुभिर्लाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥ शीताशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तनाब्जकान्ती क्रमौ नालीकेसरलालसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥ १२ का० स० गु. For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166