Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
पार्श्वस्तवः । अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियच्चिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि तावकात् ॥२४॥ च्युतजनुव्रतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता । व्यरचि यैरुपयत्रिदशैदृशां नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्तिभित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८ ॥ करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता । हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥
इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तकः ।
श्रीजिनप्रभसूरिविरचितः
पार्श्वस्तवः। अधियदुपनमन्तो यात्रिका प्रीतिपात्रा
अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्घिस्ता(स्था)नक्लुप्तावतार
स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १ ॥ जिनविभुरविभाव्यं वैभवं भूरि बिभ्र
द्भवतु भुजगभोगाभोगविभ्राजिमौलिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166