Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
९०
काव्यमाला ।
अङ्गुष्ठादिषु आदिशब्दाद्दीप जलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिनां विद्यानां भवनं स्थानम् । आश्रयविधिः कर्म पुद्गलानां संवरस्तनिरोधः । निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमा नोऽस्माकं शं सुखं दिशतु ॥
ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पङ्किसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥ २० ॥ मृगापुत्रसुबाहुवादिभिर्दृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाकश्रुतमेकादशमङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवर्णादेः' इत्यनेन सूत्रेण परतो त्वम् । एतान्यप्येकादशान्यङ्गानि श्रीसुधर्मस्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्वृतत्वेन सर्वगणधर शिष्याणामेतद्वा चनाग्रहणात् । अत एवादौ श्रीसुधर्मा
नमस्कृतः ॥
प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥
यत्प्रणिधाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ता । अतिदेशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमाचाराङ्गोपाङ्ग देवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत | आचाराङ्गस्य शास्त्रपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं 'एवमेगे सिनोनायं भवइ' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपञ्चयत इत्यर्थः । अङ्गस्योपसमीप इत्युपाङ्गम् ॥
सूर्याभवैभवविभावनहृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ २२ ॥
सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनेचणेन हृष्टं यत्तीर्थं प्रथमगणधरचतुर्विधः संघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि । उपपत्तिशतैर्युक्ति शतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसंघेन प्रश्नः कृतः सर्वेभ्योदेवेभ्यः किमित्ययमुत्कृष्ट इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c6d5cff4561a344b18a0f5b985230df5478a16311f31ab5bb9e30f47b0ccea41.jpg)
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166