Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१०८
काव्यमाला।
कमानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डवाडम्बरश्री
हेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीतिं फुल्लत्फणामाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौ
यास्त्वं देशनावास्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं ___ जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो
भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं
पायंपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः । नूनं हर्षप्रकर्षोद्गतनयनपयःपूरदम्भेन दूरं
मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्रिन्ति ॥ ५ ॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य__ कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या__ दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो __ गात्रश्रीमैव्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप
निष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा
हेवाकीसर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता ___ भुक्तिं भुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रेत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया
कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । १. सरखयाः. २. प्रतिजलाशयम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166