Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१०४
काव्यमाला।
इत्यप्रबुध्यैव विरोधमीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥ २५ ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं स्मरशासनं ते ॥ २६ ॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥ सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः ॥ २८ ॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षटूजीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः ॥ २९॥ अन्योन्यपक्षप्रतिपक्षमावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥ ३० ॥ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य । लकेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥
इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे ___ जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन
स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२॥ इति श्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम् ।
श्रीहेमचन्द्राचार्यविरचितं
अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरखामिस्तोत्रम् । अगम्यमध्यात्मविदामवाच्यं वचखिनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ १. हेमचन्द्र इति ग्रन्थकर्तुर्नामापि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166